Loading...
अथर्ववेद > काण्ड 20 > सूक्त 29

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 29/ मन्त्र 5
    सूक्त - गोषूक्त्यश्वसूक्तिनौ देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-२९

    अ॑सु॒न्वामि॑न्द्र सं॒सदं॒ विषू॑चीं॒ व्यनाशयः। सो॑म॒पा उत्त॑रो॒ भव॑न् ॥

    स्वर सहित पद पाठ

    अ॒सु॒न्वाम् । इ॒न्द्र॒ । स॒म्ऽसद॑म् । विषू॑चीम् । वि । अ॒ना॒श॒य॒: ॥ सो॒म॒ऽपा: । उत्ऽत॑र: । भव॑न् ॥२९.५॥


    स्वर रहित मन्त्र

    असुन्वामिन्द्र संसदं विषूचीं व्यनाशयः। सोमपा उत्तरो भवन् ॥

    स्वर रहित पद पाठ

    असुन्वाम् । इन्द्र । सम्ऽसदम् । विषूचीम् । वि । अनाशय: ॥ सोमऽपा: । उत्ऽतर: । भवन् ॥२९.५॥

    अथर्ववेद - काण्ड » 20; सूक्त » 29; मन्त्र » 5

    टिप्पणीः - −(असुन्वाम्) षुञ् अभिषवे-शानच्, स्वादिभ्यः श्नुः, ततष्टाप्, अमि कृते नकारलोपः। असुन्वानाम्। अभिषवं बलिं राजग्राह्यं भागं न ददतीम् (इन्द्रः) (संसदम्) जनसंहतिम् (विषूचीम्) नानागतिम् (वि) विशेषेण (अनाशयः) नाशितवानसि (सोमपाः) ऐश्वर्यरक्षकः (उत्तरः) उत्+तॄ अभिभवे-अप्। उत्कर्षेण विजयी (भवन्) सन् ॥

    इस भाष्य को एडिट करें
    Top