अथर्ववेद - काण्ड 20/ सूक्त 29/ मन्त्र 3
सूक्त - गोषूक्त्यश्वसूक्तिनौ
देवता - इन्द्रः
छन्दः - गायत्री
सूक्तम् - सूक्त-२९
अ॒पां फेने॑न॒ नमु॑चेः॒ शिर॑ इ॒न्द्रोद॑वर्तयः। विश्वा॒ यदज॑यः॒ स्पृधः॑ ॥
स्वर सहित पद पाठअ॒पाम् । फेने॑न । नमु॑चे: । शिर॑: । इ॒न्द्र॒ । उत् । अ॒व॒र्त॒य॒: ॥ विश्वा॑: । यत् । अज॑य: । स्पृध॑: ॥२९.३॥
स्वर रहित मन्त्र
अपां फेनेन नमुचेः शिर इन्द्रोदवर्तयः। विश्वा यदजयः स्पृधः ॥
स्वर रहित पद पाठअपाम् । फेनेन । नमुचे: । शिर: । इन्द्र । उत् । अवर्तय: ॥ विश्वा: । यत् । अजय: । स्पृध: ॥२९.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 29; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - यह मन्त्र यजुर्वेद में भी है-१९।७१ तथा सामवेद-पू० ३।२।८ ॥ ३−(अपाम्) जलानाम् (फेनेन) फेनवल्लघुतीक्ष्णशस्त्रविशेषेण (नमुचेः) अ० २०।२१।७। अमोचनीयस्य दण्डनीयस्य पापिनः (शिरः) (इन्द्र) परमैश्वर्यवन् सेनापते (उदवर्तयः) ऊर्ध्वं गमितवानसि (विश्वाः) सर्वाः (यत्) यदा (अजयः) जितवानसि (स्पृधः) स्पर्ध संघर्षे-क्विप्, रेफस्य ऋकारः अकारलोपश्च। स्पर्धमानाः। युध्यमानाः शत्रुसेनाः ॥
इस भाष्य को एडिट करें