अथर्ववेद - काण्ड 20/ सूक्त 29/ मन्त्र 4
सूक्त - गोषूक्त्यश्वसूक्तिनौ
देवता - इन्द्रः
छन्दः - गायत्री
सूक्तम् - सूक्त-२९
मा॒याभि॑रु॒त्सिसृ॑प्सत इन्द्र॒ द्यामा॒रुरु॑क्षतः। अव॒ दस्यूँ॑रधूनुथाः ॥
स्वर सहित पद पाठमा॒याभि॑: । उ॒त्ऽसिसृप्सत: । इन्द्र॑ । द्याम् । आ॒ऽरुरु॑क्षत: ॥ अव॑ । दस्यू॑न् । अ॒धू॒नु॒था॒: ॥२९.४॥
स्वर रहित मन्त्र
मायाभिरुत्सिसृप्सत इन्द्र द्यामारुरुक्षतः। अव दस्यूँरधूनुथाः ॥
स्वर रहित पद पाठमायाभि: । उत्ऽसिसृप्सत: । इन्द्र । द्याम् । आऽरुरुक्षत: ॥ अव । दस्यून् । अधूनुथा: ॥२९.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 29; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−(मायाभिः) प्रज्ञाभिः (उत्सिसृप्सतः) सृप्लृ गतौ-सनि शतृ। उत्सर्पणेच्छून्। ऊर्ध्वगमनेच्छून् (इन्द्र) हे परमैश्वर्यवन् सेनापते (द्याम्) आकाशम् (आरुरुक्षतः) रुह प्रादुर्भावे-सनि शतृ। आरोहणेच्छून् (अव) अधोमुखम् (दस्यून्) उपक्षेप्तॄन्। दुष्टान्। चौरान् (अधूनुथाः) धूञ् कम्पने-लङ्। कम्पितवान् प्रेरितवानसि ॥
इस भाष्य को एडिट करें