अथर्ववेद - काण्ड 20/ सूक्त 30/ मन्त्र 1
प्र ते॑ म॒हे वि॒दथे॑ शंसिषं॒ हरी॒ प्र ते॑ वन्वे व॒नुषो॑ हर्य॒तं मद॑म्। घृ॒तं न यो हरि॑भि॒श्चारु॒ सेच॑त॒ आ त्वा॑ विशन्तु॒ हरि॑वर्पसं॒ गिरः॑ ॥
स्वर सहित पद पाठप्र । ते॒ । म॒हे । वि॒दथे॑ । शंसि॒ष॒म् । ह॒री इति॑ । ते॒ । व॒न्वे॒ । व॒नुष॑: । ह॒र्य॒तम् । मद॑म् ॥ घृ॒तम् । न । य: । हरि॑ऽभि: । चारु॑ । सेच॑ते । आ । त्वा॒ । वि॒श॒न्तु॒ । हरि॑ऽवर्पसम् । गिरि॑: ॥३०.१॥
स्वर रहित मन्त्र
प्र ते महे विदथे शंसिषं हरी प्र ते वन्वे वनुषो हर्यतं मदम्। घृतं न यो हरिभिश्चारु सेचत आ त्वा विशन्तु हरिवर्पसं गिरः ॥
स्वर रहित पद पाठप्र । ते । महे । विदथे । शंसिषम् । हरी इति । ते । वन्वे । वनुष: । हर्यतम् । मदम् ॥ घृतम् । न । य: । हरिऽभि: । चारु । सेचते । आ । त्वा । विशन्तु । हरिऽवर्पसम् । गिरि: ॥३०.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 30; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - यह सूक्त ऋग्वेद में है-१०।९६।१-। इस सूक्त का मिलान करो ऋग्वेद-म० ३। सू० ४४ ॥ १−(प्र) (ते) तव (महे) मह पूजायाम्-घञर्थे क। महति (विदथे) अ० १।१३।४। विद ज्ञाने अथप्रत्ययः। समाजे (शंसिषम्) शंसु स्तुतौ-लडर्थे लुङ्, अडभावः। स्तौमि (हरी) दुःखहरणशीलौ बलपराक्रमौ (प्र ते) तव (वन्वे) वनु याचने-लट्। अहं याचे (वनुषः) जनेरुसिः। उ० २।११। वन हिंसायाम्-उसि। शत्रुहिंसकस्य शूरस्य (हर्यतम्) भृमृदृशियजि०। उ० ३।११०। हर्य कान्तौ-अतच्। कमनीयम् (मदम्) आनन्दम् (घृतम्) उदकम् (न) इव (यः) भवान् (हरिभिः) वीरमनुष्यैः (चारु) रमणीयं धनम् (सेचते) सिञ्चति। वर्षयति (आ) समन्तात् (त्वा) त्वाम् (विशन्तु) प्रविशन्तु। प्राप्नुवन्तु (हरिवर्पसम्) वृङ्शीङ्भ्यां रूपस्वाङ्गयोः पुट् च। उ० ४।२०१। वृङ् वरणे-असुन् पुट् च। वर्पो रूपनाम-निघ० ३।७। हरे सिंहस्य रूपमिव रूपं यस्य तम्। महाबलवन्तम् (गिरः) स्तुतयः ॥
इस भाष्य को एडिट करें