अथर्ववेद - काण्ड 20/ सूक्त 30/ मन्त्र 5
त्वंत्व॑महर्यथा॒ उप॑स्तुतः॒ पूर्वे॑भिरिन्द्र हरिकेश॒ यज्व॑भिः। त्वं ह॑र्यसि॒ तव॒ विश्व॑मु॒क्थ्यमसा॑मि॒ राधो॑ हरिजात हर्य॒तम् ॥
स्वर सहित पद पाठत्वम्ऽत्व॑म् । अ॒ह॒र्य॒था॒: । उप॑ऽस्तुत: । पूर्वे॑भि: । इ॒न्द्र॒ । ह॒रि॒के॒श॒ । यज्व॑ऽभि: ॥ त्वम् । ह॒र्य॒सि॒ । तव॑ । विश्व॑म् । उ॒क्थ्य॑म् । असा॑मि । राध॑: । ह॒रि॒ऽजा॒त॒ । ह॒र्य॒तम् ॥३०.५॥
स्वर रहित मन्त्र
त्वंत्वमहर्यथा उपस्तुतः पूर्वेभिरिन्द्र हरिकेश यज्वभिः। त्वं हर्यसि तव विश्वमुक्थ्यमसामि राधो हरिजात हर्यतम् ॥
स्वर रहित पद पाठत्वम्ऽत्वम् । अहर्यथा: । उपऽस्तुत: । पूर्वेभि: । इन्द्र । हरिकेश । यज्वऽभि: ॥ त्वम् । हर्यसि । तव । विश्वम् । उक्थ्यम् । असामि । राध: । हरिऽजात । हर्यतम् ॥३०.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 30; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - −(त्वं त्वम्) त्वमेव (अहर्यथाः) अकामयथाः। प्रियोऽभवः (उपस्तुतः) आदरेण प्रशंसितः (पूर्वेभिः) समस्तैः (इन्द्र) हे परमैश्वर्यवन् राजन् (हरिकेश) केशा रश्मयः काशनाद् वा प्रकाशनाद् वा-निरु० १२।२। हे सूर्यवत् प्रकाशवन् (यज्वभिः) सुयजोर्ङ्वनिप्। पा० ३।२।१०३। यज देवपूजादिषु ङ्वनिप्। यज्ञकर्तृभिः (त्वम्) (हर्यसि) कामयसे (तव) (विश्वम्) सर्वम् (उक्थ्यम्) प्रशस्यम् (असामि) भुवः कित्। उ० ४।४। षो अन्तकर्मणि-मिप्रत्ययः। असामि सामिप्रतिषिद्धं सामि स्यतेः असुसमाप्तम्-निरु० ६।२३। असमाप्तम्। अनन्तम् (राधः) धनम् (हरिजात) हे हरिषु मनुष्येषु प्रसिद्ध (हर्यतम्) कमनीयम् ॥
इस भाष्य को एडिट करें