अथर्ववेद - काण्ड 20/ सूक्त 30/ मन्त्र 3
सो अ॑स्य॒ वज्रो॒ हरि॑तो॒ य आ॑य॒सो हरि॒र्निका॑मो॒ हरि॒रा गभ॑स्त्योः। द्यु॒म्नी सु॑शि॒प्रो हरि॑मन्युसायक॒ इन्द्रे॒ नि रू॒पा हरि॑ता मिमिक्षिरे ॥
स्वर सहित पद पाठस: । अ॒स्य॒ । वज्र॑: । हरि॑त: । य: । आ॒य॒स: । हरि॑: । निका॑म: । हरि॑: । आ । गभ॑स्त्यो: ॥ द्यु॒म्नी । सु॒ऽशि॒प्र: । हरि॑मन्युऽसायक: । इन्द्रे॑ । नि । रू॒पा । हरि॑ता । मि॒मि॒क्षि॒रे॒ ।३०.३॥
स्वर रहित मन्त्र
सो अस्य वज्रो हरितो य आयसो हरिर्निकामो हरिरा गभस्त्योः। द्युम्नी सुशिप्रो हरिमन्युसायक इन्द्रे नि रूपा हरिता मिमिक्षिरे ॥
स्वर रहित पद पाठस: । अस्य । वज्र: । हरित: । य: । आयस: । हरि: । निकाम: । हरि: । आ । गभस्त्यो: ॥ द्युम्नी । सुऽशिप्र: । हरिमन्युऽसायक: । इन्द्रे । नि । रूपा । हरिता । मिमिक्षिरे ।३०.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 30; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(सः) प्रसिद्धः (अस्य) सेनापतेः (वज्रः) दण्डशस्त्रम् (हरितः) हृश्याभ्यामितन्। उ० ३।९३। हृञ् नाशने-इतन्। शत्रुनाशकः (यः) वज्रः (आयसः) लोहनिर्मितः (हरिः) सिंह इव (निकामः) नितरां कमनीयः प्रियः (हरिः) सूर्य इव (आ) समुच्चये (गभस्त्योः) गम्यते ज्ञायते इति गः विषयः, गम-ड, तं बभस्ति भासयति दीपयतीति। क्तिच्क्तौ च। पा० ३।३।७। भस दीप्तौ-क्तिच्। गभस्ती बाहूनाम-निघ० २-४। भुजयोः (द्युम्नी) अ० ६।३।३। द्युत दीप्तौ-नप्रत्ययः, कित्, तस्य मः, द्युम्न-इति। दीप्तिमान् (सुशिप्रः) अ० २०।४।१। शिञ् निशाने छेदने-रक् पुक् च। बहुच्छेदकः। बहुकण्टकः। बहुदन्तः (हरिमन्युसायकः) हरेः सर्पस्येव शत्रोः क्रोधस्य नाशकः (इन्द्रे) परमैश्वर्यवति सेनापतौ (नि) नितराम् (रूपा) सौन्दर्याणि (हरिता) हृञ् स्वीकारे-इतन्। स्वीकरणीयानि (मिमिक्षिरे) मिह सेचने-सन्-कर्मणि लडर्थे लिट्। मेढुं सेक्तुम् इष्टानि भवन्ति। सिक्तानि सन्ति ॥
इस भाष्य को एडिट करें