Loading...
अथर्ववेद > काण्ड 20 > सूक्त 30

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 30/ मन्त्र 4
    सूक्त - बरुः सर्वहरिर्वा देवता - हरिः छन्दः - जगती सूक्तम् - सूक्त-३०

    दि॒वि न के॒तुरधि॑ धायि हर्य॒तो वि॒व्यच॒द्वज्रो॒ हरि॑तो॒ न रंह्या॑। तु॒दद॒हिं हरि॑शिप्रो॒ य आ॑य॒सः स॒हस्र॑शोका अभवद्धरिम्भ॒रः ॥

    स्वर सहित पद पाठ

    दि॒वि । न । के॒तु: । अधि॑ । धा॒यि॒ । ह॒र्य॒त: । वि॒व्यच॑त् । वज्र॑: । हरि॑त: । न । रंह्या॑ ॥ तु॒दत् । अहि॑म् । हरि॑ऽशिप्र: । य: । आ॒य॒स: । स॒हस्र॑ऽशोका: । अ॒भ॒व॒त् । ह॒रि॒म्ऽभ॒र: ॥३०.४॥


    स्वर रहित मन्त्र

    दिवि न केतुरधि धायि हर्यतो विव्यचद्वज्रो हरितो न रंह्या। तुददहिं हरिशिप्रो य आयसः सहस्रशोका अभवद्धरिम्भरः ॥

    स्वर रहित पद पाठ

    दिवि । न । केतु: । अधि । धायि । हर्यत: । विव्यचत् । वज्र: । हरित: । न । रंह्या ॥ तुदत् । अहिम् । हरिऽशिप्र: । य: । आयस: । सहस्रऽशोका: । अभवत् । हरिम्ऽभर: ॥३०.४॥

    अथर्ववेद - काण्ड » 20; सूक्त » 30; मन्त्र » 4

    टिप्पणीः - ४−(दिवि) प्रकाशे (न) यथा (केतुः) प्रज्ञापकः प्रकाशः (अधि) उपरि (धायि) अधायि। निहितो वर्तते (हर्यतः) कमनीयः (विव्यचत्) व्यच व्याजीकरणे भेदे व्याप्तौ-णिचि लुङ्, अडभावः। व्याप्नोत् (वज्रः) अर्शआद्यच्। वज्रवान् (हरितः) सिंहः (न) इव (रंह्या) रंहणेन वेगेन (तुदत्) अतुदत्। हिंसितवान् (अहिम्) आहन्तारं सर्पमिव शत्रुम् (हरिशिप्रः) स्फायितञ्चिवञ्चि०। उ० २।१३। शिञ् निशाने छेदने-रक्, पुक् च। शिप्रे हनूनासिके वा-निरु० ६।१७। हरेः सिंहस्य मुखमिव मुखं यस्य सः (यः) (आयसः) लोहनिर्मितः। अतिदृढः (सहस्रशोकाः) गतिकारकोपपदयोः पूर्वपदप्रकृतिस्वरत्वं च। उ० ४।२२७। सहस्र+ई शुचिर् पूतीभावे-असि। सहस्रप्रकाशः (अभवत्) (हरिंभरः), संज्ञायां भृतॄवृजि०। पा० ३।२।४६। हरि+भृञ् भरणे-खच्, मुमागमः। हरयो मनुष्याः निघ० ३।२। मनुष्याणां पोषकः ॥

    इस भाष्य को एडिट करें
    Top