Loading...
अथर्ववेद > काण्ड 20 > सूक्त 31

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 31/ मन्त्र 3
    सूक्त - बरुः सर्वहरिर्वा देवता - हरिः छन्दः - जगती सूक्तम् - सूक्त-३१

    हरि॑श्मशारु॒र्हरि॑केश आय॒सस्तु॑र॒स्पेये॒ यो ह॑रि॒पा अव॑र्धत। अर्व॑द्भि॒र्यो हरि॑भिर्वा॒जिनी॑वसु॒रति॒ विश्वा॑ दुरि॒ता पारि॑ष॒द्धरी॑ ॥

    स्वर सहित पद पाठ

    हरि॑ऽश्मशारु: । हरि॑ऽकेश: । आ॒य॒स: । तु॒र॒:ऽपेये॑ । य: । ह॒रि॒पा: । अव॑र्धत ॥ अर्व॑त्ऽभि: । य: । हरि॑ऽभि: । वा॒जिनी॑ऽवसु: । अति॑ । विश्वा॑ । दु:ऽइ॒ता । परिषत् । हरी॒ इति॑ ॥३१.३॥


    स्वर रहित मन्त्र

    हरिश्मशारुर्हरिकेश आयसस्तुरस्पेये यो हरिपा अवर्धत। अर्वद्भिर्यो हरिभिर्वाजिनीवसुरति विश्वा दुरिता पारिषद्धरी ॥

    स्वर रहित पद पाठ

    हरिऽश्मशारु: । हरिऽकेश: । आयस: । तुर:ऽपेये । य: । हरिपा: । अवर्धत ॥ अर्वत्ऽभि: । य: । हरिऽभि: । वाजिनीऽवसु: । अति । विश्वा । दु:ऽइता । परिषत् । हरी इति ॥३१.३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 31; मन्त्र » 3

    टिप्पणीः - ३−(हरिश्मशारुः) हृञ् नाशने-इन्+शीङ् स्वप्ने-मनिन्, डिच्च+त्रो रश्च लः। उ०१।।९ शॄ हिंसायाम्-उण्। श्म शरीरम्-निरु०३।। हरेः सिंहस्य श्मनः शरीरस्य शारुश्छेदयः (हरिकेशः) सूर्यवत् प्रकाशमानः (आयसः) लोहनिर्मितः। अतिदृढः (तुरस्पेये) भूरञ्जिभ्यां कित्। उ०४।२१७। तुर वेगे-असुन्, कित्। अचो यत्। पा०३।१।९७। पा रक्षणे-यत्। ईद्यति। पा०६।४।६। आकारस्य ईकारः। तुरसा वेगेन रक्षणे (यः) सेनापतिः (हरिपाः) हरीणां मनुष्याणां रक्षकः (अवर्धत) वर्द्धितवान् (अर्वद्भिः) म०२। अश्वतुल्यैर्वेगवद्भिः (यः) (हरिभिः) म०२। (वाजिनीवसुः) वाजिनीषु अन्नयुक्तासु क्रियासु निवासशीलः (अति) अतीत्य (विश्वा) सर्वाणि (दुरिता) विघ्नान् (पारिषत्) पॄ पूरणे-णिच्, लेट्। पूरयेत् (हरी) दुःखहर्तारौ बलपराक्रमौ ॥

    इस भाष्य को एडिट करें
    Top