Loading...
अथर्ववेद > काण्ड 20 > सूक्त 31

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 31/ मन्त्र 4
    सूक्त - बरुः सर्वहरिर्वा देवता - हरिः छन्दः - जगती सूक्तम् - सूक्त-३१

    स्रुवे॑व यस्य॒ हरि॑णी विपे॒ततुः॒ शिप्रे॒ वाजा॑य॒ हरि॑णी॒ दवि॑ध्वतः। प्र यत्कृ॒ते च॑म॒से मर्मृ॑ज॒द्धरी॑ पी॒त्वा मद॑स्य हर्य॒तस्यान्ध॑सः ॥

    स्वर सहित पद पाठ

    स्रुवा॑ऽइव । यस्‍य॑ । हरि॑णी॒ इति॑ । वि॒ऽपे॒ततु॑: । शि॒प्रे॒ इति॑ । वाजा॒य । हरि॑णी॒ इति॑ ।‍ दवि॑ध्वत: ॥ प्र । यत् । कृ॒ते । च॒म॒से । मर्मृ॑जत् । हरी॒ इति॑ । पी॒त्वा । मद॑स्य । ह॒र्य॒तस्य॑ । अन्ध॑स: ॥३१.४॥


    स्वर रहित मन्त्र

    स्रुवेव यस्य हरिणी विपेततुः शिप्रे वाजाय हरिणी दविध्वतः। प्र यत्कृते चमसे मर्मृजद्धरी पीत्वा मदस्य हर्यतस्यान्धसः ॥

    स्वर रहित पद पाठ

    स्रुवाऽइव । यस्‍य । हरिणी इति । विऽपेततु: । शिप्रे इति । वाजाय । हरिणी इति ।‍ दविध्वत: ॥ प्र । यत् । कृते । चमसे । मर्मृजत् । हरी इति । पीत्वा । मदस्य । हर्यतस्य । अन्धस: ॥३१.४॥

    अथर्ववेद - काण्ड » 20; सूक्त » 31; मन्त्र » 4

    टिप्पणीः - ४−(स्रुवा) स्रुवौ। चमसौ (इव) यथा (यस्य) सेनापतेः (हरिणी) हृञ् स्वीकारे-इनच्, उ०२।४६। स्वीकरणीये (विपेततुः) लङर्थे लिट्। विविधं पततश्चलतः (शिप्रे) अथर्व-२०।४।१। शिञ् निशाने छेदने-रक् पुक्च, टाप्। शिप्रे हनू नासिके वा-निरु०६।१७। हनू (वाजाय) अन्नाय (हरिणी) हृञ् नाशने-इनच्। सुखनाशिके अविद्याकुनीती (दविध्वतः) दाधर्तिदर्धर्ति०। पा०७।४।६। ध्वृ कौटिल्ये यङ्लुकि लट् द्विवचनान्तः। ध्वरति वधकर्मा-निघ०२।१६। सर्वथा विनश्यतः (प्र) प्रकर्षेण (यत्) यत् (कृते) संस्कृते (चमसे) भोजने (मर्मृजत्) मृजू शुद्धौ-लट्। मार्ष्टि। शोधयति (हरी) दुःखहर्तारौ बलपराक्रमौ (पीत्वा) पानं कृत्वा (मदस्य) आनन्दकस्य (हर्यतस्य) कमनीयस्य (अन्धसः) अन्नस्य॥

    इस भाष्य को एडिट करें
    Top