अथर्ववेद - काण्ड 20/ सूक्त 73/ मन्त्र 2
सूक्त - वसिष्ठः
देवता - इन्द्रः
छन्दः - त्रिपदा विराडनुष्टुप्
सूक्तम् - सूक्त-७३
नू चि॒न्नु ते॒ मन्य॑मानस्य द॒स्मोद॑श्नुवन्ति महि॒मान॑मुग्र। न वी॒र्यमिन्द्र ते॒ न राधः॑ ॥
स्वर सहित पद पाठनु । चि॒त् । नु । ते॒ । मन्य॑मानस्य । द॒स्म॒ । उत् । अ॒श्नु॒व॒न्ति॒ । म॒हि॒मान॑म् । उ॒ग्र॒ । न । वी॒र्य॑म् । इ॒न्द्र॒ । ते॒ । न । राध॑: ॥७३.२॥
स्वर रहित मन्त्र
नू चिन्नु ते मन्यमानस्य दस्मोदश्नुवन्ति महिमानमुग्र। न वीर्यमिन्द्र ते न राधः ॥
स्वर रहित पद पाठनु । चित् । नु । ते । मन्यमानस्य । दस्म । उत् । अश्नुवन्ति । महिमानम् । उग्र । न । वीर्यम् । इन्द्र । ते । न । राध: ॥७३.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 73; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(नु चित्) कदापि (नु) निश्चयेन (ते) तव (मन्यमानस्य) मन ज्ञाने-शानच्। विदुषः पुरुषस्य (दस्म) अ० २०।१७।२। हे दर्शनीय (उत) आधिक्ये (अश्नुवन्ति) प्राप्नुवन्ति (महिमानम्) महत्त्वम् (उग्र) तेजस्विन् (न) निषेधे (वीर्यम्) पराक्रमम् (इन्द्र) परमैश्वर्ययुक्त राजन् (ते) तव (न) निषेधे (राधः) धनम् ॥
इस भाष्य को एडिट करें