अथर्ववेद - काण्ड 20/ सूक्त 73/ मन्त्र 6
यो वा॒चा विवा॑चो मृ॒ध्रवा॑चः पु॒रू स॒हस्राशि॑वा ज॒घान॑। तत्त॒दिद॑स्य॒ पौंस्यं॑ गृणीमसि पि॒तेव॒ यस्तवि॑षीं वावृ॒धे शवः॑ ॥
स्वर सहित पद पाठय: । वा॒चा । विऽवा॑च: । मृ॒ध्रऽवा॑च: । पु॒रू । स॒हस्रा॑ । अशि॑वा । ज॒घान॑ ॥ तत्ऽत॑त् । इत् । अ॒स्य॒ । पौंस्य॑म् । गृ॒णी॒म॒सि॒ । पि॒ताऽइ॑व । य: । तवि॑षीम् । व॒वृ॒धे । शव॑: ॥७३.६॥
स्वर रहित मन्त्र
यो वाचा विवाचो मृध्रवाचः पुरू सहस्राशिवा जघान। तत्तदिदस्य पौंस्यं गृणीमसि पितेव यस्तविषीं वावृधे शवः ॥
स्वर रहित पद पाठय: । वाचा । विऽवाच: । मृध्रऽवाच: । पुरू । सहस्रा । अशिवा । जघान ॥ तत्ऽतत् । इत् । अस्य । पौंस्यम् । गृणीमसि । पिताऽइव । य: । तविषीम् । ववृधे । शव: ॥७३.६॥
अथर्ववेद - काण्ड » 20; सूक्त » 73; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६−(यः) वीरः (वाचा) सत्यवाण्या (विवाचः) विरुद्धवाणीयुक्तस्य (मृध्रवाचः) हिंसकवाणीयुक्तस्य (पुरु) बहूनि (सहस्रा) सहस्राणि (अशिवा) अभद्राणि। क्रूरकर्माणि (जघान) नाशितवान् (तत्-तत्) सुप्रसिद्धम् (इत्) एव (अस्य) शूरस्य (पौंस्यम्) अ० २०।६७।२। पुंसः कर्म। बलम् (गृणीमसि) वयं स्तुमः (पिता) (इव) (यः) शूरः (तविषीम्) अ० २०।९।२। शक्तिम् (वावृधे) वर्धितवान् (शवः) बलम् ॥
इस भाष्य को एडिट करें