Loading...
अथर्ववेद > काण्ड 20 > सूक्त 73

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 73/ मन्त्र 4
    सूक्त - वसुक्रः देवता - इन्द्रः छन्दः - जगती सूक्तम् - सूक्त-७३

    य॒दा वज्रं॒ हिर॑ण्य॒मिदथा॒ रथं॒ हरी॒ यम॑स्य॒ वह॑तो॒ वि सू॒रिभिः॑। आ ति॑ष्ठति म॒घवा॒ सन॑श्रुत॒ इन्द्रो॒ वाज॑स्य दी॒र्घश्र॑वस॒स्पतिः॑ ॥

    स्वर सहित पद पाठ

    य॒दा । वज्र॑म् । हिर॑ण्यम् । इत् ।अथ॑ । रथ॑म् । हरी॒ इ॒ति । यम् । अ॒स्य॒ । वह॑त: । वि । सू॒रिऽभि॑: ॥ आ । ति॒ष्ठ॒ति॒ । म॒घऽवा॑ । सन॑ऽश्रुत: । इन्द्र॑: । वाज॑स्य । दी॒र्घऽश्र॑वस: । पति॑: ॥७३.४॥


    स्वर रहित मन्त्र

    यदा वज्रं हिरण्यमिदथा रथं हरी यमस्य वहतो वि सूरिभिः। आ तिष्ठति मघवा सनश्रुत इन्द्रो वाजस्य दीर्घश्रवसस्पतिः ॥

    स्वर रहित पद पाठ

    यदा । वज्रम् । हिरण्यम् । इत् ।अथ । रथम् । हरी इति । यम् । अस्य । वहत: । वि । सूरिऽभि: ॥ आ । तिष्ठति । मघऽवा । सनऽश्रुत: । इन्द्र: । वाजस्य । दीर्घऽश्रवस: । पति: ॥७३.४॥

    अथर्ववेद - काण्ड » 20; सूक्त » 73; मन्त्र » 4

    टिप्पणीः - मन्त्र ४-६ ऋग्वेद में हैं-१०।२३।३- ॥ ४−(यदा) यस्मिन् काले (वज्रम्) दण्डम् (हिरण्यम्) तेजोमयम् (इत्) एव (अथ) अनन्तरम् (रथम्) रथमिव रमणीयं राज्यव्यवहारम् (हरी) अश्वाविव बलपराक्रमौ (यम्) वज्रं रथं वा (अस्य) सेनापतेः (वहतः) नयतः (वि) विविधम् (सूरिभिः) अ० २०।३४।१७। प्रेरकैर्विद्वद्भिः (आ तिष्ठति) आरोहति। उपरि वर्तते (मघवा) महाधनी (सनश्रुतः) षणु दाने-अच्। दानाय प्रसिद्धः (इन्द्रः) महाप्रतापी सेनापतिः (वाजस्य) पराक्रमस्य (दीर्घश्रवसः) बहुकीर्तियुक्तस्य (पतिः) स्वामी ॥

    इस भाष्य को एडिट करें
    Top