अथर्ववेद - काण्ड 20/ सूक्त 73/ मन्त्र 5
सो चि॒न्नु वृ॒ष्टिर्यू॒थ्या॒ स्वा सचाँ॒ इन्द्रः॒ श्मश्रू॑णि॒ हरि॑ता॒भि प्रु॑ष्णुते। अव॑ वेति सु॒क्षयं॑ सु॒ते मधूदिद्धू॑नोति॒ वातो॒ यथा॒ वन॑म् ॥
स्वर सहित पद पाठसो इति॑ । चि॒त् । नु । वृ॒ष्टि: । यू॒थ्या॑ । स्वा । सचा॑ । इन्द्र॑: । श्मश्रू॑णि: । हरि॑ता । अ॒भि । प्रु॑ष्णु॒ते॒ ॥ अव॑ । वे॒ति॒ । सु॒ऽक्षय॑म् । सु॒ते । मधु॑ । उत् । इत् । धू॒नो॒ति॒ । वात॑: । यथा॑ । वन॑म् ॥७३.५॥
स्वर रहित मन्त्र
सो चिन्नु वृष्टिर्यूथ्या स्वा सचाँ इन्द्रः श्मश्रूणि हरिताभि प्रुष्णुते। अव वेति सुक्षयं सुते मधूदिद्धूनोति वातो यथा वनम् ॥
स्वर रहित पद पाठसो इति । चित् । नु । वृष्टि: । यूथ्या । स्वा । सचा । इन्द्र: । श्मश्रूणि: । हरिता । अभि । प्रुष्णुते ॥ अव । वेति । सुऽक्षयम् । सुते । मधु । उत् । इत् । धूनोति । वात: । यथा । वनम् ॥७३.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 73; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - −(सो) स एव (चित्) उपमार्थे (नु) निश्चयेन (वृष्टिः) जलवर्षा (यूथ्या) स्वार्थे यत्। यूथानि। सजातीयसमुदायान् (स्वा) स्वकीयानि (सचा) समवायेन (इन्द्रः) परमैश्वर्यवान् मनुष्यः (श्मश्रूणि) अ० ।१९।१४। शीङ्, शयने-मनिन्, डित्+श्रिञ् सेवायाम्-डुन्। श्म शरीरम्.....श्मश्रु लोम श्मनि श्रितं भवति-निरु० ३।। शरीरे श्रितान्यङ्गानि यथा (हरिता) अ० २०।३०।३। स्वीकरणीयानि (अभि) सर्वतः (प्रुष्णुते) प्रुष स्नेहनसेचनपूरणेषु-लट्। सिञ्चति। वर्धयति (अव वेति) वी गत्यादिषु। अधिगच्छति। प्राप्नोति (सुक्षयम्) क्षि ऐश्वर्ये-अच्। बह्वैश्वर्ययुक्तम् (सुते) उत्पन्ने जगति (मधु) निश्चितं ज्ञानम्। मधुविद्याम् (उत्) उत्कृष्य (इत्) एव (धूनोति) कम्पयति पापानि (वातः) वायुः (यथा) (वनम्) वृक्षसमूहम् ॥
इस भाष्य को एडिट करें