अथर्ववेद - काण्ड 20/ सूक्त 91/ मन्त्र 6
इन्द्रो॑ व॒लं र॑क्षि॒तारं॒ दुघा॑नां क॒रेणे॑व॒ वि च॑कर्ता॒ रवे॑ण। स्वेदा॑ञ्जिभिरा॒शिर॑मि॒च्छमा॒नोऽरो॑दयत्प॒णिमा गा अ॑मुष्णात् ॥
स्वर सहित पद पाठइन्द्र॑: । व॒लम् । र॒क्षि॒तार॑म् । दुघा॑नाम् । क॒रेण॑ऽइव । वि । च॒क॒र्त॒ । रवे॑ण ॥ स्वेदा॑ञ्जिऽभि: । आ॒ऽशिर॑म् । इ॒च्छमान: । अरो॑दयत् । प॒णिम् । आ । गा: । अ॒मु॒ष्णा॒त् ॥९१.६॥
स्वर रहित मन्त्र
इन्द्रो वलं रक्षितारं दुघानां करेणेव वि चकर्ता रवेण। स्वेदाञ्जिभिराशिरमिच्छमानोऽरोदयत्पणिमा गा अमुष्णात् ॥
स्वर रहित पद पाठइन्द्र: । वलम् । रक्षितारम् । दुघानाम् । करेणऽइव । वि । चकर्त । रवेण ॥ स्वेदाञ्जिऽभि: । आऽशिरम् । इच्छमान: । अरोदयत् । पणिम् । आ । गा: । अमुष्णात् ॥९१.६॥
अथर्ववेद - काण्ड » 20; सूक्त » 91; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६−(इन्द्रः) परमैश्वर्यवान् परमेश्वरः (वलम्) हिंसकं विघ्नम् (रक्षितारम्) रक्षकम्। निरोधकमित्यर्थः (दुघानाम्) दुह प्रपूरणे-कप्, टाप्। पूरयित्रीणां शक्तीनाम् (करेण) हस्तेन (इव) यथा (वि) विविधम् (चकर्त) कृती छेदने-लिट्। चिच्छेद (रवेण) शब्देन वेदेन (स्वेदाञ्जिभिः) ञिष्विदा स्नेहनमोचनमोहनेषु अव्यक्तशब्दे गात्रप्रक्षरणे च-घञ्+अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु-इन्। मोचनस्य मोक्षस्य व्यक्तीकरणव्यवहारैः (आशिरम्) अ० २०।२२।६। आङ्+श्रीञ् पाके-क्विप्, शिर् इत्यादेशः। परिपक्वत्वम् (इच्छमानः) कामयमानः (अरोदयत्) रोदनं कारितवान् (पणिम्) कुव्यवहारिणं पुरुषम् (आ) समन्तात् (गाः) रश्मीन्। प्रकाशान् (अमुष्णात्) अपहृतवान् ॥
इस भाष्य को एडिट करें