Loading...
अथर्ववेद > काण्ड 20 > सूक्त 91

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 91/ मन्त्र 5
    सूक्त - अयास्यः देवता - बृहस्पतिः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-९१

    वि॒भिद्या॒ पुरं॑ श॒यथे॒मपा॑चीं॒ निस्त्रीणि॑ सा॒कमु॑द॒धेर॑कृन्तत्। बृह॒स्पति॑रु॒षसं॒ सूर्यं॒ गाम॒र्कं वि॑वेद स्त॒नय॑न्निव॒ द्यौः ॥

    स्वर सहित पद पाठ

    वि॒ऽभिद्य॑: । पुर॑म् । श॒यथा॑ । ई॒म् । अपा॑चीम् । नि: । त्रीणि॑ । सा॒कम् । उ॒द॒ऽधे: । अ॒कृ॒न्त॒त् ॥ बृह॒स्पति॑: । उ॒षस॑म् । सूर्य॑म् । गाम् । अ॒र्कम् । वि॒वे॒द॒ । स्त॒नय॑न्ऽइव । द्यौ: ॥९१.५॥


    स्वर रहित मन्त्र

    विभिद्या पुरं शयथेमपाचीं निस्त्रीणि साकमुदधेरकृन्तत्। बृहस्पतिरुषसं सूर्यं गामर्कं विवेद स्तनयन्निव द्यौः ॥

    स्वर रहित पद पाठ

    विऽभिद्य: । पुरम् । शयथा । ईम् । अपाचीम् । नि: । त्रीणि । साकम् । उदऽधे: । अकृन्तत् ॥ बृहस्पति: । उषसम् । सूर्यम् । गाम् । अर्कम् । विवेद । स्तनयन्ऽइव । द्यौ: ॥९१.५॥

    अथर्ववेद - काण्ड » 20; सूक्त » 91; मन्त्र » 5

    टिप्पणीः - −(विभिद्य) विदार्य (पुरम्) पूर्तिं नगरीं वा (शयथा) शीङ्शपिरुगमि०। उ० ३।११३। शीङ् शयने-अथप्रत्ययः। विभक्तेराकारः। शयथाम्। शयनयुक्ताम् (ईम्) प्राप्ताम् (अपाचीम्) पराङ्मुखीम् (निः) पृथग्भावे (त्रीणि) धामानि त्रयाणि भवन्ति स्थानानि नामानि जन्मानीनि-निरु० ९।२८। (साकम्) युगपत् (उदधेः) जलाधारात्। समुद्रात् (अकृन्तत्) छिन्नवान्। निर्गमितवान् (बृहस्पतिः) बृहतां ब्रह्माण्डानां रक्षकः परमेश्वरः (उंषसम्) उषः किच्च। उ० ४।२३४। उष दाहे-असि कित्। दाहकम् (सूर्यम्) आदित्यमण्डलम् (द्याम्) पृथिवीम् (अर्कम्) अर्क तापे स्तुतौ च-घञ्। अन्नम्-निरु० ।४। (विवेद) विज्ञापितवान् (स्तनयन्) गर्जयन् मेघः (इव) यथा (द्यौः) प्रकाशमानः परमेश्वरः ॥

    इस भाष्य को एडिट करें
    Top