अथर्ववेद - काण्ड 20/ सूक्त 91/ मन्त्र 2
ऋ॒तं शंस॑न्त ऋ॒जु दीध्या॑ना दि॒वस्पु॒त्रासो॒ असु॑रस्य वी॒राः। विप्रं॑ प॒दमङ्गि॑रसो॒ दधा॑ना य॒ज्ञस्य॒ धाम॑ प्रथ॒मं म॑नन्त ॥
स्वर सहित पद पाठऋ॒तम् । शंस॑न्त: । ऋ॒जु । दीध्या॑ना: । दि॒व: । पु॒त्रास॑: । असु॑रस्य । वी॒रा: ॥ विप्र॑म् । पद॑म् । अङ्गि॑रस: । दधा॑ना: । य॒ज्ञस्य॑ । धाम॑ । प्रथ॒मम् । म॒न॒न्त॒ ॥९१.२॥
स्वर रहित मन्त्र
ऋतं शंसन्त ऋजु दीध्याना दिवस्पुत्रासो असुरस्य वीराः। विप्रं पदमङ्गिरसो दधाना यज्ञस्य धाम प्रथमं मनन्त ॥
स्वर रहित पद पाठऋतम् । शंसन्त: । ऋजु । दीध्याना: । दिव: । पुत्रास: । असुरस्य । वीरा: ॥ विप्रम् । पदम् । अङ्गिरस: । दधाना: । यज्ञस्य । धाम । प्रथमम् । मनन्त ॥९१.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 91; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(ऋतम्) सत्यज्ञानम् (शंसन्तः) स्तुवन्तः (ऋजु) सरलम्। यथार्थम् (दीध्यानाः) ध्यै चिन्तायाम्-कानच्। तुजादीनां दीर्घोऽभ्यासस्य। पा० ६।१।७। इति दीर्घः। ध्यायन्तः (दिवः) विजिगीषोः (पुत्रासः) पुत्राः (असुरस्य) प्रज्ञायुक्तस्य (वीराः) विक्रान्ताः (विप्रम्) विविधपूरकम् (पदम्) प्रापणीयं वस्तु (अङ्गिरसः) ज्ञानिनः। ऋषयः (दधानाः) धारयन्तः (यज्ञस्य) पूजनीयव्यवहारस्य (धाम) धारकं स्थानम् (प्रथमम्) मुख्यम् (मनन्त) मन्यतेरर्चतिकर्मा-निघ० १।४। अमनन्त। अस्तुवन्त ॥
इस भाष्य को एडिट करें