अथर्ववेद - काण्ड 20/ सूक्त 93/ मन्त्र 6
त्वमि॑न्द्रासि वृत्र॒हा व्यन्तरि॑क्ष॒मति॑रः। उद्द्याम॑स्तभ्ना॒ ओज॑सा ॥
स्वर सहित पद पाठत्वम् । इ॒न्द्र॒ । अ॒सि॒ । वृत्र॒ऽहा । वि । अ॒न्तरि॑क्षम् । अ॒ति॒र॒: ॥ उत् । द्याम् । अ॒स्त॒भ्ना॒ : । ओजसा ॥९३.६॥
स्वर रहित मन्त्र
त्वमिन्द्रासि वृत्रहा व्यन्तरिक्षमतिरः। उद्द्यामस्तभ्ना ओजसा ॥
स्वर रहित पद पाठत्वम् । इन्द्र । असि । वृत्रऽहा । वि । अन्तरिक्षम् । अतिर: ॥ उत् । द्याम् । अस्तभ्ना : । ओजसा ॥९३.६॥
अथर्ववेद - काण्ड » 20; सूक्त » 93; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६−(त्वम्) (इन्द्र), परमैश्वर्यवन् परमात्मन् (असि) (वृत्रहा) अन्धकारनाशकः (अन्तरिक्षम्) आकाशम् (वि अतिरः) तॄ तरणे-लङ्, अदादित्वम्। विस्तारितवानसि (उत्) उत्तमतया (द्याम्) द्योतमानं सूर्यम् (अस्तभ्नाः) स्तम्भितवानसि (ओजसा) पराक्रमेण ॥
इस भाष्य को एडिट करें