अथर्ववेद - काण्ड 3/ सूक्त 16/ मन्त्र 4
सूक्त - अथर्वा
देवता - इन्द्रः
छन्दः - भुरिक्पङ्क्तिः
सूक्तम् - कल्याणार्थप्रार्थना
उ॒तेदानीं॒ भग॑वन्तः स्यामो॒त प्र॑पि॒त्व उ॒त मध्ये॒ अह्ना॑म्। उ॒तोदि॑तौ मघव॒न्त्सूर्य॑स्य व॒यं दे॒वानां॑ सुम॒तौ स्या॑म ॥
स्वर सहित पद पाठउ॒त । इ॒दानी॑म् । भग॑ऽवन्त: । स्या॒म॒ । उ॒त । प्र॒ऽपि॒त्वे । उ॒त । मध्ये॑ । अह्ना॑म् । उ॒त । उत्ऽइ॑तौ । म॒घ॒ऽव॒न् । सूर्य॑स्य । व॒यम् । दे॒वाना॑म् । सु॒ऽम॒तौ । स्या॒म॒ ॥१६.४॥
स्वर रहित मन्त्र
उतेदानीं भगवन्तः स्यामोत प्रपित्व उत मध्ये अह्नाम्। उतोदितौ मघवन्त्सूर्यस्य वयं देवानां सुमतौ स्याम ॥
स्वर रहित पद पाठउत । इदानीम् । भगऽवन्त: । स्याम । उत । प्रऽपित्वे । उत । मध्ये । अह्नाम् । उत । उत्ऽइतौ । मघऽवन् । सूर्यस्य । वयम् । देवानाम् । सुऽमतौ । स्याम ॥१६.४॥
अथर्ववेद - काण्ड » 3; सूक्त » 16; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−(उत्) समुच्चये। (इदानीम्) इदम्-दानीम्। इदम् इश्। पा० ५।३।३। दानीं च। पा० ५।३।१९। इति वर्तमाने दानीम्। अस्मिन् काले। (भगवन्तः) सकलैश्वर्ययुक्ताः। (स्याम) भवेम। (उत, उत) नित्यवीप्सयोः। पा० ८।१।४। इति द्विर्वचनम्। अपि च। (प्रपित्वे) अन्येभ्योऽपि दृश्यन्ते। उ० ४।१०५। प्र+आप्लृ व्याप्तौ-इत्वन्, आकारलोपः। प्रपित्वेऽभीक इत्यासन्नस्य प्रपित्वे प्राप्ते-निरु० ३।२०। प्राप्ते सौभाग्ये। (अह्नाम् मध्ये) दिनानाम्। मध्ये। भविष्यकाले। (उदितौ) उद्+इण् गतौ-क्तिन्। उदये। उद्गमने। (मघवन्) अ० २।५।७। महि वृद्धौ, दाने च-घञर्थे क, मतुप्। मघमिति धननामधेयं महंतेर्दानकर्मणः-निरु० १।७। हे प्रशस्तधनवन्। (सूर्यस्य) आदित्यस्य। (देवानाम्) आप्तविदुषाम्। (सुमतौ) कल्याण्यां बुद्धौ ॥
इस भाष्य को एडिट करें