अथर्ववेद - काण्ड 3/ सूक्त 16/ मन्त्र 6
सूक्त - अथर्वा
देवता - दधिक्रावा, अश्वसमूहः
छन्दः - त्रिष्टुप्
सूक्तम् - कल्याणार्थप्रार्थना
सम॑ध्व॒रायो॒षसो॑ नमन्त दधि॒क्रावे॑व॒ शुच॑ये प॒दाय॑। अ॑र्वाची॒नं व॑सु॒विदं॒ भगं॑ मे॒ रथ॑मि॒वाश्वा॑ वा॒जिन॒ आ व॑हन्तु ॥
स्वर सहित पद पाठसम् । अ॒ध्व॒राय॑ । उ॒षस॑: । न॒म॒न्त॒ । द॒धि॒क्रावा॑ऽइव । शुच॑ये । प॒दाय॑ । अ॒र्वा॒ची॒नम् । व॒सु॒ऽविद॑म् । भग॑म् । मे॒ । रथ॑म्ऽइव । अश्वा॑: । वा॒जिन॑: । आ । व॒ह॒न्तु॒ ॥१६.६॥
स्वर रहित मन्त्र
समध्वरायोषसो नमन्त दधिक्रावेव शुचये पदाय। अर्वाचीनं वसुविदं भगं मे रथमिवाश्वा वाजिन आ वहन्तु ॥
स्वर रहित पद पाठसम् । अध्वराय । उषस: । नमन्त । दधिक्रावाऽइव । शुचये । पदाय । अर्वाचीनम् । वसुऽविदम् । भगम् । मे । रथम्ऽइव । अश्वा: । वाजिन: । आ । वहन्तु ॥१६.६॥
अथर्ववेद - काण्ड » 3; सूक्त » 16; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६−(अध्वराय) अ० १।४।१। अध्वन्+रा-क। यद्वा, न+ध्वृ हिंसने-अच्। अध्वर इति यज्ञनाम ध्वरतिर्हिंसाकर्मा तत्प्रतिषेधः-निरु० १।८। मार्गदानाय। अहिंसामयाय व्यवहाराय यज्ञाय। (उषसः) प्रभाताः। (सं नमन्त) छान्दसो लट्। संनमन्ते। प्रह्वीभवन्ति। (दधिक्रावा) आदृगमहनजनः किकिनौ लिट् च। पा० ३।२।१७१। इति डुधाञ् धारणपोषणयोः-कि, स च लिड्वत्। इति दधिः। अन्येभ्योऽपि दृश्यन्ते। पा० ३।२।७५। इति दधि+क्रमु, पादविक्षेपे वा क्रदि आह्वाने, क्रन्द सातत्यशब्दे-वनिप्। विड्वनोरनुनासिकस्यात्। पा० ६।४।४१। इत्यात्वम्। दधिक्रावा=अश्वः-निघ० १।१४। दधत् क्रामतीति वा दधत् क्रन्दतीति वा दधदाकारी भवतीति वा-निरु० २।२७। दधिः, धारयिता सन् क्रामतीति वा क्रन्दतीति वा दधिक्रावा। दधिक्राः। अश्वः। (शुचये) शुद्धाय। प्रमादशून्याय। (पदाय) गमनाय। (अर्वाचीनम्) अर्वाच्-ख। इदानीन्तनम्। नूतनम्। (वसुविदम्) इगुपध०। पा० ३।१।१३५। इति वसु+विद लाभे-क। धनानां लम्भकं प्रापकम्। (भगम्) ऐश्वर्यम्। (मे) मह्यम्। (रथमिव) हनिकुषिनीरमिकाशिभ्यः क्थन्। उ० २।२। इति रमु क्रीडने-क्थन्। यानं यथा। (अश्वाः) घोटाः। (वाजिनः) वज गतौ-घञ्। वाजः=अन्नम्, निघ० २।७। बलम्, निघ० २।९। अत इनिठनौ। पा० ५।२।११५। इति इनि। अन्नवन्तः। बलवन्तः। ज्ञानवन्तः। (आ वहन्तु) आगमयन्तु ॥
इस भाष्य को एडिट करें