अथर्ववेद - काण्ड 3/ सूक्त 23/ मन्त्र 4
सूक्त - ब्रह्मा
देवता - चन्द्रमाः, योनिः
छन्दः - अनुष्टुप्
सूक्तम् - वीरप्रसूति सूक्त
यानि॑ भ॒द्राणि॒ बीजा॑न्यृष॒भा ज॒नय॑न्ति च। तैस्त्वं पु॒त्रं वि॑न्दस्व॒ सा प्र॒सूर्धेनु॑का भव ॥
स्वर सहित पद पाठयानि॑ । भ॒द्राणि॑ । बीजा॑नि । ऋ॒ष॒भा: । ज॒नय॑न्ति । च॒ । तै: । त्वम् । पु॒त्रम् । वि॒न्द॒स्व॒ । सा । प्र॒ऽसू: । धेनु॑का । भ॒व॒ ॥२३.४॥
स्वर रहित मन्त्र
यानि भद्राणि बीजान्यृषभा जनयन्ति च। तैस्त्वं पुत्रं विन्दस्व सा प्रसूर्धेनुका भव ॥
स्वर रहित पद पाठयानि । भद्राणि । बीजानि । ऋषभा: । जनयन्ति । च । तै: । त्वम् । पुत्रम् । विन्दस्व । सा । प्रऽसू: । धेनुका । भव ॥२३.४॥
अथर्ववेद - काण्ड » 3; सूक्त » 23; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−(यानि) यादृशानि। (भद्राणि) मङ्गलप्रदानि। अमोघवीर्याणि। (बीजानि) अ० ३।१७।२। अपत्यानि-निघ० २।२। (ऋषभाः) अ० ३।६।४। सूक्ष्मदर्शिनः। ऋषयः। ऋषभौषधविशेषस्य रसाः। तस्य गुणाः। मधुरत्वम्। शीतत्वम्। रक्तपित्तविरेकनाशित्वम्। शुक्रश्लेष्मकारित्वम्। दाहक्षयज्वरहरत्वं च। इति शब्दकल्पद्रुमे। (जनयन्ति) उत्पादयन्ति। (तैः) तथाविधैः। (विन्दस्व) विद्लृ लाभे। लभस्व। (सा) सा त्वम्। (प्रसूः) सत्सूद्विष०। पा० ३।२।६१। इति प्र+षूङ् प्राणिप्रसवे-क्विप्। सन्तानोत्पादिका। (धेनुका) अ० ३।१०।१। धेनुरेव धेनुका। स्वार्थिकः कः। दुग्धदात्री। तर्पयित्री। धेनुवत् पोषयित्री ॥
इस भाष्य को एडिट करें