अथर्ववेद - काण्ड 3/ सूक्त 23/ मन्त्र 5
सूक्त - ब्रह्मा
देवता - चन्द्रमाः, योनिः
छन्दः - उपरिष्टाद्भुरिग्बृहती
सूक्तम् - वीरप्रसूति सूक्त
कृ॒णोमि॑ ते प्राजाप॒त्यमा योनिं॒ गर्भ॑ एतु ते। वि॒न्दस्व॒ त्वं पु॒त्रं ना॑रि॒ यस्तुभ्यं॒ शमस॒च्छमु॒ तस्मै॒ त्वं भव॑ ॥
स्वर सहित पद पाठकृ॒णोमि॑ । ते॒ । प्रा॒जा॒ऽप॒त्यम् । आ । योनि॑म् । गर्भ॑: । ए॒तु॒ । ते॒ । वि॒न्दस्व॑ । त्वम् । पु॒त्रम् । ना॒रि॒ । य: । तुभ्य॑म् । शम् । अस॑त् । शम् । ऊं॒ इति॑ । तस्मै॑ । त्वम् । भव॑ ॥२३.५॥
स्वर रहित मन्त्र
कृणोमि ते प्राजापत्यमा योनिं गर्भ एतु ते। विन्दस्व त्वं पुत्रं नारि यस्तुभ्यं शमसच्छमु तस्मै त्वं भव ॥
स्वर रहित पद पाठकृणोमि । ते । प्राजाऽपत्यम् । आ । योनिम् । गर्भ: । एतु । ते । विन्दस्व । त्वम् । पुत्रम् । नारि । य: । तुभ्यम् । शम् । असत् । शम् । ऊं इति । तस्मै । त्वम् । भव ॥२३.५॥
अथर्ववेद - काण्ड » 3; सूक्त » 23; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५−(कृणोमि) करोमि। (ते) तुभ्यम्। (प्राजापत्यम्) दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः। पा० ४।१।८५। इति प्रजाप्रति-ण्य। प्रजापतेर्गृहस्थस्य कर्म धर्म वा। गर्भाधानपुंसवनादिसंस्कारम्। (नारि) अ० १।११।१। हे नरस्य धर्म्ये। (शम्) सुखहेतुः। (उ) अपि च। अन्यद् गतम्-म० २, ४ ॥
इस भाष्य को एडिट करें