Loading...
अथर्ववेद > काण्ड 3 > सूक्त 23

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 23/ मन्त्र 6
    सूक्त - ब्रह्मा देवता - चन्द्रमाः, योनिः छन्दः - स्कन्धोग्रीवी बृहती सूक्तम् - वीरप्रसूति सूक्त

    यासां॒ द्यौष्पि॒ता पृ॑थि॒वी मा॒ता स॑मु॒द्रो मूलं॑ वी॒रुधां॑ ब॒भूव॑। तास्त्वा॑ पुत्र॒विद्या॑य॒ दैवीः॒ प्राव॒न्त्वोष॑धयः ॥

    स्वर सहित पद पाठ

    यासा॑म् । द्यौ: । पि॒ता । पृ॒थि॒वी । मा॒ता । स॒मु॒द्र: । मूल॑म् । वी॒रुधा॑म् । ब॒भूव॑ । ता: । त्वा॒ । पु॒त्र॒ऽविद्या॑य । दैवी॑: । प्र । अ॒व॒न्तु॒ । ओष॑धय: ॥२३.६॥


    स्वर रहित मन्त्र

    यासां द्यौष्पिता पृथिवी माता समुद्रो मूलं वीरुधां बभूव। तास्त्वा पुत्रविद्याय दैवीः प्रावन्त्वोषधयः ॥

    स्वर रहित पद पाठ

    यासाम् । द्यौ: । पिता । पृथिवी । माता । समुद्र: । मूलम् । वीरुधाम् । बभूव । ता: । त्वा । पुत्रऽविद्याय । दैवी: । प्र । अवन्तु । ओषधय: ॥२३.६॥

    अथर्ववेद - काण्ड » 3; सूक्त » 23; मन्त्र » 6

    टिप्पणीः - ६−(द्यौः) अ० २।१२।६। द्योतमानः सूर्यः। (पिता) अ० १।२।१। वृष्टिदानेन रक्षको जनयिता। (पृथिवी) अ० १।२।१। विस्तृता भूमिः। (माता) अ० ३।९।१। निर्मात्री। जननी। (समुद्रः) अ० १।१३।३। समुन्दनशीलः सागरः। (मूलम्) अ० २।७।३। मुख्यकारणम्। (वीरुधाम्) अ० १।३२।१। विरोहणस्वभावानाम्। ओषधीनाम्। (पुत्रविद्याय) संज्ञायां समजनिषदनिपत०। पा० ३।३।९९। इति विद्लृ लाभे, छन्दसि भावे क्यप्। सन्तानलाभाय। (दैवीः) अ० १।१९।२। दैव्यः। दिव्याः। अन्यद् गतम् ॥

    इस भाष्य को एडिट करें
    Top