अथर्ववेद - काण्ड 3/ सूक्त 23/ मन्त्र 2
सूक्त - ब्रह्मा
देवता - चन्द्रमाः, योनिः
छन्दः - अनुष्टुप्
सूक्तम् - वीरप्रसूति सूक्त
आ ते॒ योनिं॒ गर्भ॑ एतु॒ पुमा॒न्बाण॑ इवेषु॒धिम्। आ वी॒रोऽत्र॑ जायतां पु॒त्रस्ते॒ दश॑मास्यः ॥
स्वर सहित पद पाठआ । ते॒ । योनि॑म् । गर्भ॑: । ए॒तु॒ । पुमा॑न् । बाण॑:ऽइव । इ॒षु॒ऽधिम् । आ । वी॒र: । अत्र॑ । जा॒य॒ता॒म् । पु॒त्र: । ते॒ । दश॑ऽमास्य: ॥२३.२॥
स्वर रहित मन्त्र
आ ते योनिं गर्भ एतु पुमान्बाण इवेषुधिम्। आ वीरोऽत्र जायतां पुत्रस्ते दशमास्यः ॥
स्वर रहित पद पाठआ । ते । योनिम् । गर्भ: । एतु । पुमान् । बाण:ऽइव । इषुऽधिम् । आ । वीर: । अत्र । जायताम् । पुत्र: । ते । दशऽमास्य: ॥२३.२॥
अथर्ववेद - काण्ड » 3; सूक्त » 23; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(योनिम्) अ० १।११।३। गर्भाशयम्। (गर्भः) अ० १।११।२। भ्रूणः। उदरस्थबालकः। (आ, एतु) आगच्छतु। (पुमान्) अ० १।८।१। पा रक्षणे-डुमसुन्। रक्षणसमर्थः सन्तानः। (बाणः) बण शब्दे गतौ वा-घञ्। शरः। नाराचः। (इषुधिम्) कर्मण्यधिकरणे च। पा० ३।३।९३। इति इषु+धा-कि। निषङ्गम्। (वीरः) शूरः। (अत्र) अस्मिन् कुले। (जायताम्) उत्पद्यताम्। (पुत्रः) अ० १।११।५। कुलशोधकः पुरुत्राता। पुतो नरकात् त्राता सन्तानः। यथा, तनयः, सूनुः, इति अपत्यनामसु पठितम्-निघ० २।२। (दशमास्यः) अ० १।११।६। दशमासान् भूतः ॥
इस भाष्य को एडिट करें