Loading...
अथर्ववेद > काण्ड 3 > सूक्त 27

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 27/ मन्त्र 2
    सूक्त - अथर्वा देवता - दक्षिणदिक्, इन्द्रः, तिरश्चिराजी, पितरगणः छन्दः - पञ्चपदा ककुम्मत्यष्टिः सूक्तम् - शत्रुनिवारण सूक्त

    दक्षि॑णा॒ दिगिन्द्रो॑ऽधिपति॒स्तिर॑श्चिराजी रक्षि॒ता पि॒तर॒ इष॑वः। तेभ्यो॒ नमो॑ऽधिपतिभ्यो॒ नमो॑ रक्षि॒तृभ्यो॒ नम॒ इषु॑भ्यो॒ नम॑ एभ्यो अस्तु। यो॒स्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मस्तं वो॒ जम्भे॑ दध्मः ॥

    स्वर सहित पद पाठ

    दक्षि॑णा । दिक् । इन्द्र॑: । अधि॑ऽपति: । तिर॑श्चिऽराजि: । र॒क्षि॒ता । पि॒तर॑: । इष॑व: । तेभ्य॑: । नम॑: । अधि॑पतिऽभ्य: । नम॑: । र॒क्षि॒तृऽभ्य॑: । नम॑: । इषु॑ऽभ्य: । नम॑: । ए॒भ्य॒: । अ॒स्तु॒ ।य: । अ॒स्मान् । द्वेष्टि॑ । यम् । व॒यम् । द्वि॒ष्म: । तम् । व॒: । जम्भे॑ । द॒ध्म: ॥२७.२॥


    स्वर रहित मन्त्र

    दक्षिणा दिगिन्द्रोऽधिपतिस्तिरश्चिराजी रक्षिता पितर इषवः। तेभ्यो नमोऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु। योस्मान्द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः ॥

    स्वर रहित पद पाठ

    दक्षिणा । दिक् । इन्द्र: । अधिऽपति: । तिरश्चिऽराजि: । रक्षिता । पितर: । इषव: । तेभ्य: । नम: । अधिपतिऽभ्य: । नम: । रक्षितृऽभ्य: । नम: । इषुऽभ्य: । नम: । एभ्य: । अस्तु ।य: । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्म: । तम् । व: । जम्भे । दध्म: ॥२७.२॥

    अथर्ववेद - काण्ड » 3; सूक्त » 27; मन्त्र » 2

    टिप्पणीः - २−(दक्षिणा) दक्षिणायाः (दिक्) दिशः। दिशायाः। उभयत्र विभक्तेर्लुप् (तिरश्चिराजिः) ऋत्विग्दधृक्०। पा० ३।२।५९। इति तिरस्+अञ्चू गतिपूजनयोः-क्विन्। अनिदितां हल उप०। पा० ६।४।२४। इति नलोपः। उगितश्च। पा० ४।१।६। अत्र वार्त्तिकम्। अञ्चतेश्चोपसंख्यानम्। इति ङीप्। छान्दसो ह्रस्वः। वसिवपियजिराजि०। उ० ४।१२।५। इति राजृ दीप्तौ, ऐश्वर्ये च-इञ्। तिरश्च्यः तिर्यग् अवस्थिता राजयः, आवलयः, यस्य तथाविधः सर्पः-इति सायणः। तथाविधसर्पवत् सेनाव्यूहः। यद्वा तिरश्चीनां तिर्यग्जातीनां पशुपक्ष्यादीनां पङ्क्तिवत् पङ्क्तिर्यस्य तथाविधः सेनाव्यूहः (पितरः) अ० १।२।१। रक्षकाः। इषवः, इत्यस्य विशेषणम्। अन्यद् गतम् ॥

    इस भाष्य को एडिट करें
    Top