अथर्ववेद - काण्ड 3/ सूक्त 27/ मन्त्र 6
सूक्त - अथर्वा
देवता - ऊर्ध्वा दिक्, बृहस्पतिः, श्वित्रः, वर्षम्
छन्दः - पञ्चपदा ककुम्मतीगर्भाष्टिः
सूक्तम् - शत्रुनिवारण सूक्त
ऊ॒र्ध्वा दिग्बृह॒स्पति॒रधि॑पतिः श्वि॒त्रो र॑क्षि॒ता व॒र्षमिष॑वः। तेभ्यो॒ नमो॑ऽधिपतिभ्यो॒ नमो॑ रक्षि॒तृभ्यो॒ नम॒ इषु॑भ्यो॒ नम॑ एभ्यो अस्तु। यो॒स्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मस्तं वो॒ जम्भे॑ दध्मः ॥
स्वर सहित पद पाठऊ॒र्ध्वा । दिक् । बृह॒स्पति॑: । अधि॑ऽपति: । श्वि॒त्र: । र॒क्षि॒ता । व॒र्षम् । इष॑व: । तेभ्य॑: । नम॑: । अधि॑पतिऽभ्य: । नम॑: । र॒क्षि॒तृऽभ्य॑: । नम॑: । इषु॑ऽभ्य: । नम॑: । ए॒भ्य॒: । अ॒स्तु॒ । य: । अ॒स्मान् । द्वेष्टि॑ । यम् । व॒यम् । द्वि॒ष्म: । तम् । व॒: । जम्भे॑ । द॒ध्म:॥२७.६॥
स्वर रहित मन्त्र
ऊर्ध्वा दिग्बृहस्पतिरधिपतिः श्वित्रो रक्षिता वर्षमिषवः। तेभ्यो नमोऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु। योस्मान्द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः ॥
स्वर रहित पद पाठऊर्ध्वा । दिक् । बृहस्पति: । अधिऽपति: । श्वित्र: । रक्षिता । वर्षम् । इषव: । तेभ्य: । नम: । अधिपतिऽभ्य: । नम: । रक्षितृऽभ्य: । नम: । इषुऽभ्य: । नम: । एभ्य: । अस्तु । य: । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्म: । तम् । व: । जम्भे । दध्म:॥२७.६॥
अथर्ववेद - काण्ड » 3; सूक्त » 27; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६−(ऊर्ध्वा) सू० २६ म० ६। ऊर्ध्वायाः। उपरि वर्तमानायाः। (दिक्) दिशः। दिशायाः (बृहस्पतिः) बृहतां शूराणां स्वामी। मुख्यसेनापतिः (श्वित्रः) स्फायितञ्चिवञ्चि०। उ० २।१३। इति श्विता वर्णे-रक्। श्वित्रः श्वेतवर्णः, एतत्संज्ञः सर्पः-इति सायणः। श्वेतसर्पवत् सेनाव्यूहः (वर्षम्) वृष्टिजलविद्या। वृष्टिवदायुधवृष्टिः। अन्यद् व्याख्यातम् ॥
इस भाष्य को एडिट करें