अथर्ववेद - काण्ड 3/ सूक्त 27/ मन्त्र 1
सूक्त - अथर्वा
देवता - रुद्रः, प्राचीदिशा, अग्निः, असितः, आदित्यगणः
छन्दः - पञ्चपदा ककुम्मतीगर्भाष्टिः
सूक्तम् - शत्रुनिवारण सूक्त
प्राची॒ दिग॒ग्निरधि॑पतिरसि॒तो र॑क्षि॒तादि॒त्या इष॑वः। तेभ्यो॒ नमोऽधि॑पतिभ्यो॒ नमो॑ रक्षि॒तृभ्यो॒ नम॒ इषु॑भ्यो॒ नम॑ एभ्यो अस्तु। यो॒स्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मस्तं वो॒ जम्भे॑ दध्मः ॥
स्वर सहित पद पाठप्राची॑ । दिक् । अ॒ग्नि: । अधि॑ऽपति: । अ॒सि॒त: । र॒क्षि॒ता । आ॒दि॒त्या: । इष॑व: । तेभ्य॑: । नम॑: । अधि॑पतिऽभ्य: । नम॑: । र॒क्षि॒तृऽभ्य॑: । नम॑: । इषु॑ऽभ्य: । नम॑: । ए॒भ्य॒: । अ॒स्तु॒ । य: । अ॒स्मान् । द्वेष्टि॑ । यम् । व॒यम् । द्वि॒ष्म:। तम् । व॒: । जम्भे॑ । द॒ध्म॒: ॥२७.१॥
स्वर रहित मन्त्र
प्राची दिगग्निरधिपतिरसितो रक्षितादित्या इषवः। तेभ्यो नमोऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु। योस्मान्द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः ॥
स्वर रहित पद पाठप्राची । दिक् । अग्नि: । अधिऽपति: । असित: । रक्षिता । आदित्या: । इषव: । तेभ्य: । नम: । अधिपतिऽभ्य: । नम: । रक्षितृऽभ्य: । नम: । इषुऽभ्य: । नम: । एभ्य: । अस्तु । य: । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्म:। तम् । व: । जम्भे । दध्म: ॥२७.१॥
अथर्ववेद - काण्ड » 3; सूक्त » 27; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−प्राची। प्राच्याम्। सू० २६ मा० १। इत्यत्रोक्तप्रकारेण रूपसिद्धिः। सुपां सुलुक्०। पा० ७।१।३९। इति विभक्तिलोपः। प्राच्याः। पूर्वायाः। अभिमुखीभूतायाः (दिक्) विभक्तिलोपः। दिशः (अग्निः) अग्निविद्यायां कुशलः पुरुषः (अधिपतिः) अधिष्ठाता। स्वामी (असितः) अ० १।२३।३। अबद्धः। कृष्णवर्णः सर्पः-इति सायणः। कृष्णसर्पवत् सेनाव्यूहः (रक्षिता) रक्षकः (आदित्याः) अ० १।९।१। दित्यदित्यादित्य० पा० ४।१।५८। इति आदित्य-ण्य प्रत्ययः। आदित्यस्य सूर्यस्य सम्बन्धिनः। सूर्यविद्युदग्निप्रयोगेण सिद्धाः (इषवः) अ० १।१३।४। आयुधानि-इति सायणः। इषुरीषतेर्गतिकर्मणो वधकर्मणो वा-निरु० ९।१८। बाणाः। अस्त्रशस्त्राणि। इषुधारिणः। शूराः (तेभ्यः) दूरस्थेभ्यः। (नमः नमः) अतिशयेन सत्कारोऽन्नं वा। नमः=अन्नम्-निघ० २।८। (एभ्यः) समीपस्थेभ्यः (यः) दुष्टः। शत्रुः (द्वेष्टि) बाधते (द्विष्मः) बाधामहे (वः) युष्माकम्। शूराणाम् (जम्भे) जभि नाशे-घञ्। हनौ [Jaw] (दध्मः) धारयामः। अन्यत् सुगमम् ॥
इस भाष्य को एडिट करें