अथर्ववेद - काण्ड 3/ सूक्त 27/ मन्त्र 4
सूक्त - अथर्वा
देवता - उदीची दिक्, सोमः, स्वजः, अशनिः
छन्दः - पञ्चपदा ककुम्मतीगर्भाष्टिः
सूक्तम् - शत्रुनिवारण सूक्त
उदी॑ची॒ दिक्सोमोऽधि॑पतिः स्व॒जो र॑क्षि॒ताशनि॒रिष॑वः। तेभ्यो॒ नमो॑ऽधिपतिभ्यो॒ नमो॑ रक्षि॒तृभ्यो॒ नम॒ इषु॑भ्यो॒ नम॑ एभ्यो अस्तु। यो॒स्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मस्तं वो॒ जम्भे॑ दध्मः ॥
स्वर सहित पद पाठउदी॑ची । दिक् । सोम॑: । अधि॑ऽपति: । स्व॒ज: । र॒क्षि॒ता । अ॒शनि॑: । इष॑व: । तेभ्य॑: । नम॑: । अधि॑पतिऽभ्य: । नम॑: । र॒क्षि॒तृऽभ्य॑: । नम॑: । इषु॑ऽभ्य: । नम॑: । ए॒भ्य॒: । अ॒स्तु॒ । य: । अ॒स्मान् । द्वेष्टि॑ । यम् । व॒यम् । द्वि॒ष्म: । तम् । व॒: । जम्भे॑ । द॒ध्म: ॥२७.४॥
स्वर रहित मन्त्र
उदीची दिक्सोमोऽधिपतिः स्वजो रक्षिताशनिरिषवः। तेभ्यो नमोऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु। योस्मान्द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः ॥
स्वर रहित पद पाठउदीची । दिक् । सोम: । अधिऽपति: । स्वज: । रक्षिता । अशनि: । इषव: । तेभ्य: । नम: । अधिपतिऽभ्य: । नम: । रक्षितृऽभ्य: । नम: । इषुऽभ्य: । नम: । एभ्य: । अस्तु । य: । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्म: । तम् । व: । जम्भे । दध्म: ॥२७.४॥
अथर्ववेद - काण्ड » 3; सूक्त » 27; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−(उदीची) उदीच्याम्-सू० २६ म० ४। तत्रवद् रूपसिद्धिः। उदीच्याः। उत्तरभागस्थितायाः। वामभागवर्त्तमानायाः (सोमः) अ० ३।१६।१। षू प्रेरणे-मन्, तुदादिः। प्रेरकः। उत्तेजकः सेनापतिः (स्वजः) स्व+जः। यद्वा। सु+अज गतिक्षेपणयोः-अच्। स्वयमेवोत्पन्नः स्वजनशीलो वा सर्पः स्वजः-इति सायणः। तथाविधसर्पवत् सेनाव्यूहः (अशनिः) अर्त्तिसृधृधम्यम्यश्य०। उ० २।१०२। इति अश भक्षणे; वा अशू व्याप्तौ-अनि। विद्युद्विद्या। अन्यद् गतम् ॥
इस भाष्य को एडिट करें