अथर्ववेद - काण्ड 3/ सूक्त 29/ मन्त्र 1
सूक्त - उद्दालकः
देवता - शितिपाद् अविः
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - अवि सूक्त
यद्राजा॑नो वि॒भज॑न्त इष्टापू॒र्तस्य॑ षोड॒शं य॒मस्या॒मी स॑भा॒सदः॑। अवि॒स्तस्मा॒त्प्र मु॑ञ्चति द॒त्तः शि॑ति॒पात्स्व॒धा ॥
स्वर सहित पद पाठयत् । राजा॑न: । वि॒ऽभज॑न्ते । इ॒ष्टा॒पू॒र्तस्य॑ । षो॒ड॒शम् । य॒मस्य॑ । अ॒मी इति॑ । स॒भा॒ऽसद॑: । अवि॑: । तस्मा॑त् । प्र । मु॒ञ्च॒ति॒ । द॒त्त: । शि॒ति॒ऽपात् । स्व॒धा ॥२९.१॥
स्वर रहित मन्त्र
यद्राजानो विभजन्त इष्टापूर्तस्य षोडशं यमस्यामी सभासदः। अविस्तस्मात्प्र मुञ्चति दत्तः शितिपात्स्वधा ॥
स्वर रहित पद पाठयत् । राजान: । विऽभजन्ते । इष्टापूर्तस्य । षोडशम् । यमस्य । अमी इति । सभाऽसद: । अवि: । तस्मात् । प्र । मुञ्चति । दत्त: । शितिऽपात् । स्वधा ॥२९.१॥
अथर्ववेद - काण्ड » 3; सूक्त » 29; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(यद्) यस्मात् कारणात् (राजानः) अ० १।१०।१। ईश्वराः। समर्थाः (विभजन्ते) विशेषेण सेवन्ते (इष्टापूर्तस्य) अ० २।१२।४। यज्ञवेदाध्ययनान्नदानादिपुण्यकर्मणः (षोडशम्) तस्य पूरणे डट्। पा० ५।२।४८। इति षोडशन्-डट्। पद उत्वं दतृदशाधासूत्तरपदादेः ष्टुत्वं च। वा० पा० ६।३।१०९। इति उत्वष्टुत्वे। षोडशानां पूरकम्। चत्वारो वर्णाश्चत्वार आश्रमाः श्रवणमनननिदिध्यासनानि त्रीणि कर्माणि, अलब्धस्य लिप्सा, लब्धस्य यत्नेन रक्षणं, रक्षितस्य वृद्धिः, वृद्धस्य सन्मार्गे व्ययकरणमेष चतुर्विधः पुरुषार्थः। एतैः पञ्चदशभिः प्राप्तं षोडशं मोक्षम्, यथा दयानन्दभाष्ये, यजुर्वेदे ९।३४। (यमस्य) यमयतीति यमः। यम परिवेषणे-अच्। नियन्तुः। नियामकस्य। धर्मराजस्य। परमेश्वरस्य (अमी) परिदृश्यमानाः (सभासदः) सभा+षद्लृ गतौ, उपवेशने-क्विप्। सभेयाः (अविः) अ० ३।१७।३। अव रक्षणगतिकान्तिप्रीत्यादिषु-इन्। रक्षकः। गतिमान्। प्रभुः। सूर्यः, सूर्यरूपः परमात्मा (तस्मात्) पूर्वोक्तात् कारणात् (प्र) प्रकर्षेण (मुञ्चति) दुःखात् मुक्तं करोति (दत्तः) आत्मने समर्पितः (शितिपात्) क्रमितमिशतिस्तम्भामत इच्च उ० ४।१२२। इति शति, हिंसायाम्-इन्। स च कित्, अत इकारः। पादस्य लोपोऽहस्त्यादिभ्यः। पा० ५।४।१३८। इति अकारलोपः। शितिः शुक्लः, कृष्णश्च। तयोर्मध्ये पादो गमने यस्य स तथाभूतः। प्रकाशान्धकारयोः समानगमनः। (स्वधा) अ० २।२९।७। स्वम् अस्माकमात्मानं पुष्णाति धनं ददातीति वा,। अमृतरूपः। अन्नरूपो भूत्वा ॥
इस भाष्य को एडिट करें