Loading...
अथर्ववेद > काण्ड 3 > सूक्त 29

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 29/ मन्त्र 2
    सूक्त - उद्दालकः देवता - शितिपाद् अविः छन्दः - अनुष्टुप् सूक्तम् - अवि सूक्त

    सर्वा॒न्कामा॑न्पूरयत्या॒भव॑न्प्र॒भव॒न्भव॑न्। आ॑कूति॒प्रोऽवि॑र्द॒त्तः शि॑ति॒पान्नोप॑ दस्यति ॥

    स्वर सहित पद पाठ

    सर्वा॑न् । कामा॑न् । पू॒र॒य॒ति॒ । आ॒ऽभव॑न् । प्र॒ऽभव॑न् । भव॑न् । आ॒कू॒ति॒ऽप्र: । अवि॑: । द॒त्त: । शि॒ति॒ऽपात् । न । उप॑ । द॒स्य॒ति॒ ॥२९.२॥


    स्वर रहित मन्त्र

    सर्वान्कामान्पूरयत्याभवन्प्रभवन्भवन्। आकूतिप्रोऽविर्दत्तः शितिपान्नोप दस्यति ॥

    स्वर रहित पद पाठ

    सर्वान् । कामान् । पूरयति । आऽभवन् । प्रऽभवन् । भवन् । आकूतिऽप्र: । अवि: । दत्त: । शितिऽपात् । न । उप । दस्यति ॥२९.२॥

    अथर्ववेद - काण्ड » 3; सूक्त » 29; मन्त्र » 2

    टिप्पणीः - २−(सर्वान्) समस्तान् (कामान्) शुभाभिलाषान् (पूरयति)। संपूर्णान् करोति (आभवन्) भू सत्तायां व्याप्तौ च-शतृ। आ समन्ताद् भवन् व्याप्नुवन् (प्रभवन्) समर्थः प्रबलः सन् (भवन्) वर्त्तमानः सन् (आकूतिप्रः) आकूति+प्रा पूरणे-क। संकल्पपूरकः (नोपदस्यति) दसु उपक्षये। नोपक्षीयते। अपितु वर्धते। अन्यद् गतं म० १ ॥

    इस भाष्य को एडिट करें
    Top