Loading...
अथर्ववेद > काण्ड 3 > सूक्त 29

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 29/ मन्त्र 4
    सूक्त - उद्दालकः देवता - शितिपाद् अविः छन्दः - अनुष्टुप् सूक्तम् - अवि सूक्त

    पञ्चा॑पूपं शिति॒पाद॒मविं॑ लो॒केन॒ संमि॑तम्। प्र॑दा॒तोप॑ जीवति पितॄ॒णां लो॒केऽक्षि॑तम् ॥

    स्वर सहित पद पाठ

    पञ्च॑ऽअपूपम् । शि॒ति॒ऽपाद॑म् । अवि॑म् । लो॒केन॑ । सम्ऽमि॑तम् । प्र॒ऽदा॒ता । उप॑ । जी॒व॒ति॒ । पि॒तृ॒णाम् । लो॒के । अक्षि॑तम् ॥२९.४॥


    स्वर रहित मन्त्र

    पञ्चापूपं शितिपादमविं लोकेन संमितम्। प्रदातोप जीवति पितॄणां लोकेऽक्षितम् ॥

    स्वर रहित पद पाठ

    पञ्चऽअपूपम् । शितिऽपादम् । अविम् । लोकेन । सम्ऽमितम् । प्रऽदाता । उप । जीवति । पितृणाम् । लोके । अक्षितम् ॥२९.४॥

    अथर्ववेद - काण्ड » 3; सूक्त » 29; मन्त्र » 4

    टिप्पणीः - ४−(पञ्चापूपम्) सप्यशूभ्यां तुट् च। उ० १।१५७। इति पचि व्यक्तीकारे विस्तारे च-कनिन्। इति पञ्च विस्तीर्णः संख्यावाचको वा। पानीविषिभ्यः पः। उ० ३।२३। इति पूयी विशरणे दुर्गन्धे च। प प्रत्ययः, यलोपः। अपूपः, अविशरणम् अहानिः गोधूमादिपिष्टकं वा। विस्तीर्णाविशरणम्। संपूर्णवृद्धियुक्तम्। यद्वा मध्यपदलोपः। पञ्चसु दिक्षु अपूपः, अविशरणम् अहानिः पूर्णता यस्य, यद्वा, दुर्गन्धरहतं पिष्टकं यस्मात् तं तथाभूतम् (प्रदाता) न लोकाव्ययनिष्ठा०। पा० २।३।६९। इति तृन्नन्तत्वात् कर्मणि षष्ठ्या निषेधे द्वितीयैव। प्रदायकः (उपजीवति) उपभुङ्क्ते (पितॄणाम्) रक्षकाणाम्। जननीजनकादिमान्यानां विदुषां शूराणाम् (लोके) जनसमूहे (अक्षितम्) नपुंसके भावे क्तः। पा० ३।३।११४। इति क्षि क्षये-भावे क्त। अक्षयत्वम्। सम्यग् वृद्धिम्। अन्यद् गतम् ॥

    इस भाष्य को एडिट करें
    Top