Loading...
अथर्ववेद के काण्ड - 3 के सूक्त 29 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 29/ मन्त्र 4
    सूक्त - उद्दालकः देवता - शितिपाद् अविः छन्दः - अनुष्टुप् सूक्तम् - अवि सूक्त
    27

    पञ्चा॑पूपं शिति॒पाद॒मविं॑ लो॒केन॒ संमि॑तम्। प्र॑दा॒तोप॑ जीवति पितॄ॒णां लो॒केऽक्षि॑तम् ॥

    स्वर सहित पद पाठ

    पञ्च॑ऽअपूपम् । शि॒ति॒ऽपाद॑म् । अवि॑म् । लो॒केन॑ । सम्ऽमि॑तम् । प्र॒ऽदा॒ता । उप॑ । जी॒व॒ति॒ । पि॒तृ॒णाम् । लो॒के । अक्षि॑तम् ॥२९.४॥

    स्वर रहित मन्त्र

    पञ्चापूपं शितिपादमविं लोकेन संमितम्। प्रदातोप जीवति पितॄणां लोकेऽक्षितम् ॥

    स्वर रहित पद पाठ

    पञ्चऽअपूपम् । शितिऽपादम् । अविम् । लोकेन । सम्ऽमितम् । प्रऽदाता । उप । जीवति । पितृणाम् । लोके । अक्षितम् ॥२९.४॥

    अथर्ववेद - काण्ड » 3; सूक्त » 29; मन्त्र » 4
    Acknowledgment

    हिन्दी (1)

    विषय

    मनुष्य परमेश्वर की भक्ति से सुख पाता है।

    पदार्थ

    (पञ्चापूपम्) विस्तीर्ण वा [पूर्वादि चार और ऊपर नीचे की पाँचवीं] पाँचों दिशाओं में अटूट शक्तिवाले, अथवा बिना सड़ी रोटी देनेवाले (शितिपादम्) प्रकाश और अन्धकार में गतिवाले, (लोकेन) संसार करके (संमितम्) सम्मान किये गए (अविम्) रक्षक प्रभु का [अपने आत्मा में] (दाता) अच्छे प्रकार दान करनेवाला (पितॄणाम्) रक्षक पुरुषों [बलवान् और विद्वानों] के (लोके) लोक में (अक्षितम्) अक्षयता [नित्य वृद्धि] को (उपजीवति) भोगता है ॥४॥

    भावार्थ

    अक्षय शक्तिवाले, सृष्टि भर को नित्य नवीन भोजन देनेवाले सर्वद्रष्टा परमेश्वर का उपासक माता पिता आदि विद्वान् वीर पितरों के साथ अक्षय (नित्य नवीन) सुख पाता है ॥४॥

    टिप्पणी

    ४−(पञ्चापूपम्) सप्यशूभ्यां तुट् च। उ० १।१५७। इति पचि व्यक्तीकारे विस्तारे च-कनिन्। इति पञ्च विस्तीर्णः संख्यावाचको वा। पानीविषिभ्यः पः। उ० ३।२३। इति पूयी विशरणे दुर्गन्धे च। प प्रत्ययः, यलोपः। अपूपः, अविशरणम् अहानिः गोधूमादिपिष्टकं वा। विस्तीर्णाविशरणम्। संपूर्णवृद्धियुक्तम्। यद्वा मध्यपदलोपः। पञ्चसु दिक्षु अपूपः, अविशरणम् अहानिः पूर्णता यस्य, यद्वा, दुर्गन्धरहतं पिष्टकं यस्मात् तं तथाभूतम् (प्रदाता) न लोकाव्ययनिष्ठा०। पा० २।३।६९। इति तृन्नन्तत्वात् कर्मणि षष्ठ्या निषेधे द्वितीयैव। प्रदायकः (उपजीवति) उपभुङ्क्ते (पितॄणाम्) रक्षकाणाम्। जननीजनकादिमान्यानां विदुषां शूराणाम् (लोके) जनसमूहे (अक्षितम्) नपुंसके भावे क्तः। पा० ३।३।११४। इति क्षि क्षये-भावे क्त। अक्षयत्वम्। सम्यग् वृद्धिम्। अन्यद् गतम् ॥

    इंग्लिश (1)

    Subject

    Taxation, Development, Administration

    Meaning

    The voluntary giver of his national-saving, protective-promotive contribution, agreed and approved by the people, meant for the sustenance and advancement of a five-community vibrant nation lives happy, free from worry and violence in the land of his forefathers.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    Top