अथर्ववेद - काण्ड 3/ सूक्त 4/ मन्त्र 1
आ त्वा॑ गन्रा॒ष्ट्रं स॒ह वर्च॒सोदि॑हि॒ प्राङ्वि॒शां पति॑रेक॒राट्त्वं वि रा॑ज। सर्वा॑स्त्वा राजन्प्र॒दिशो॑ ह्वयन्तूप॒सद्यो॑ नम॒स्यो॑ भवे॒ह ॥
स्वर सहित पद पाठआ । त्वा॒ । ग॒न् । रा॒ष्ट्रम् । स॒ह । वर्च॑सा । उत् । इ॒हि॒ । प्राङ् । वि॒शाम् । पति॑: । ए॒क॒ऽराट् । त्वम् । वि । रा॒ज॒ ।सर्वा॑: । त्वा॒ । रा॒ज॒न् । प्र॒ऽदिश॑: । ह्व॒य॒न्तु॒ । उ॒प॒ऽसद्य॑: । न॒म॒स्य᳡: । भ॒व॒ । इ॒ह ॥४.१॥
स्वर रहित मन्त्र
आ त्वा गन्राष्ट्रं सह वर्चसोदिहि प्राङ्विशां पतिरेकराट्त्वं वि राज। सर्वास्त्वा राजन्प्रदिशो ह्वयन्तूपसद्यो नमस्यो भवेह ॥
स्वर रहित पद पाठआ । त्वा । गन् । राष्ट्रम् । सह । वर्चसा । उत् । इहि । प्राङ् । विशाम् । पति: । एकऽराट् । त्वम् । वि । राज ।सर्वा: । त्वा । राजन् । प्रऽदिश: । ह्वयन्तु । उपऽसद्य: । नमस्य: । भव । इह ॥४.१॥
अथर्ववेद - काण्ड » 3; सूक्त » 4; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(त्वा)। त्वां शूरवीरम्। (आ, गन्)। गमेर्लुङि। मन्त्रे घस०। पा० २।४।८०। इति च्लेर्लुक्। मो नो धातोः। पा० ८।२।६४। इति नत्वम्। आगमत्। प्राप्तम्। (राष्ट्रम्)। अ० १।२९।१। राज्यम्। (सह)। सहितम्। (वर्चसा)। तेजसा। (उदिहि)। उदितः प्रख्यातो भव। (प्राङ्)। ऋत्विग्दधृक्०। पा० ३।२।५९। इति प्र+अञ्चु गतिपूजनयोः-क्विन्। सम्यक् पूजितः। (विशाम्)। प्रजानाम्। (पतिः)। पालकः। (एकराट्)। सत्सूद्विष०। पा० ३।२।६१। इति एक+राजृ-क्विप्। मुख्यो राजा। (वि राज)। विशेषेण दीप्यस्व, ईश्वरो भव। (सर्वाः)। निखिलाः। (राजन्)। हे नृपते। (प्रदिशः)। अ० १।११।२। प्रकृष्टा दिशः। प्राच्याद्याः। तत्रस्था जनाः। (ह्वयन्तु)। स्वामित्वेन अनुजानन्तु। (उपसद्यः)। उप+षद्लृ गतौ-यत्। सर्वैरुपसदनीयः। सेवनीयः। (नमस्यः)। नमस्य नामधातुः+कर्मणि यत्। नमस्कारयोग्यः। (इह)। अस्मिन् राज्ये। (भव)। वर्त्तस्व ॥
इस भाष्य को एडिट करें