अथर्ववेद - काण्ड 3/ सूक्त 4/ मन्त्र 2
सूक्त - अथर्वा
देवता - इन्द्रः
छन्दः - त्रिष्टुप्
सूक्तम् - राजासंवरण सूक्त
त्वां विशो॑ वृणतां रा॒ज्या॑य॒ त्वामि॒माः प्र॒दिशः॒ पञ्च॑ दे॒वीः। वर्ष्म॑न्रा॒ष्ट्रस्य॑ क॒कुदि॑ श्रयस्व॒ ततो॑ न उ॒ग्रो वि भ॑जा॒ वसू॑नि ॥
स्वर सहित पद पाठत्वाम् । विश॑: । वृ॒ण॒ता॒म् । रा॒ज्या᳡य । त्वाम् । इ॒मा: । प्र॒ऽदिश॑: । पञ्च॑ । दे॒वी: । वर्ष्म॑न् । रा॒ष्ट्रस्य॑ । क॒कुदि॑ । श्र॒य॒स्व॒ । तत॑: । न॒: । उ॒ग्र: । वि । भ॒ज॒ । वसू॑नि ॥४.२॥
स्वर रहित मन्त्र
त्वां विशो वृणतां राज्याय त्वामिमाः प्रदिशः पञ्च देवीः। वर्ष्मन्राष्ट्रस्य ककुदि श्रयस्व ततो न उग्रो वि भजा वसूनि ॥
स्वर रहित पद पाठत्वाम् । विश: । वृणताम् । राज्याय । त्वाम् । इमा: । प्रऽदिश: । पञ्च । देवी: । वर्ष्मन् । राष्ट्रस्य । ककुदि । श्रयस्व । तत: । न: । उग्र: । वि । भज । वसूनि ॥४.२॥
अथर्ववेद - काण्ड » 3; सूक्त » 4; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(त्वाम्)। राजानम्। (विशः)। प्रजाः। (वृणताम्)। वृङ् सम्भक्तौ-लोट्। संभजताम्। सेवन्ताम्। (राज्याय)। पत्यन्तपुरोहितादिभ्यो यक्। पा० ५।१।१२८। इति राजन्-यक्। राजकर्मणे। राष्ट्राय। (इमाः)। परिदृश्यमानाः। (प्रदिशः)। प्रधानदिशाः। (पञ्च)। अ० १।३०।४। षचि विस्तारे-कनिन्। विस्तीर्णाः। प्राच्याद्या मध्यदिशा सह पञ्चसंख्याकाः। (देवीः)। देव्यः। प्रकाशमानाः। दिव्याः। (वर्ष्मन्)। सर्वधातुभ्यो मनिन्। उ० ४।१४५। इति वृष प्रजननैश्ययोः-मनिन्। सप्तम्या लुक्। वर्ष्मन् शब्द उन्नतवचनः। स्थिरवचनो वा, इति सायणः, ऋग्वेदभाष्ये म० १०।२८।२। ऐश्वर्ययुक्ते। उन्नते। स्थिरे)। (राष्ट्रस्य)। राज्यस्य। (ककुदि)। क+कु शब्दे-क्विप्, तुक् च, तस्य दः, अतर्भावितण्यर्थः। कं सुखं कावयति गृहस्थस्य औन्नत्यं प्रापयतीति ककुद्। वृषस्कन्धपृष्ठस्थमांसपिण्डे। नृपचिह्ने। पर्वतशिखरे। (श्रयस्व)। श्रिञ् सेवने आश्रितो भव। आस्स्व। (ततः)। तदनन्तरम्। (नः)। अस्मभ्यम्। (वि, भज)। सांहितिको दीर्घः। यथाभागं देहि। (वसूनि)। धनानि ॥
इस भाष्य को एडिट करें