अथर्ववेद - काण्ड 3/ सूक्त 9/ मन्त्र 1
सूक्त - वामदेवः
देवता - द्यावापृथिव्यौ, विश्वे देवाः
छन्दः - अनुष्टुप्
सूक्तम् - दुःखनाशन सूक्त
क॒र्शफ॑स्य विश॒फस्य॒ द्यौः पि॒ता पृ॑थि॒वी मा॒ता। यथा॑भिच॒क्र दे॒वास्तथाप॑ कृणुता॒ पुनः॑ ॥
स्वर सहित पद पाठक॒र्शफ॑स्य । वि॒ऽश॒फस्य॑ । द्यौ: । पि॒ता । पृ॒थि॒वी । मा॒ता ।यथा॑ । अ॒भि॒ऽच॒क्र । दे॒वा॒: । तथा॑ । अप॑ । कृ॒णु॒त॒ । पुन॑: ॥९.१॥
स्वर रहित मन्त्र
कर्शफस्य विशफस्य द्यौः पिता पृथिवी माता। यथाभिचक्र देवास्तथाप कृणुता पुनः ॥
स्वर रहित पद पाठकर्शफस्य । विऽशफस्य । द्यौ: । पिता । पृथिवी । माता ।यथा । अभिऽचक्र । देवा: । तथा । अप । कृणुत । पुन: ॥९.१॥
अथर्ववेद - काण्ड » 3; सूक्त » 9; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(कर्शफस्य)। कॄशॄशलिकलिगर्दिभ्योऽभच्। उ० ३।१२२। इति कृश तनूकरणे, अल्पीभावे-अभच्, भस्य फः। कृशस्य। निर्बलस्य। विशफस्य। ऋषिवृषिभ्यां कित्। उ० ३।१२३। इति विश अन्तर्गमने-अभच् स च कित्, भस्य फः। विशः=मनुष्याः निघ० २।३। विशालस्य। प्रबलस्य। (द्यौः)। गमेर्डोः। उ० २।६२। इति द्युत दीप्तौ-डो। द्योतमानः। परमेश्वरः। (पिता)। पालकः। जनकः। (पृथिवी)। विस्तीर्णा। भूमिः। परमेश्वरः। (माता)। अ० १।२।१। मानङ्। पूजायाम्-माङ् माने वा तृच्। निपातितश्च। मातरः=निर्मात्र्यः-निरु० १२।७। मान्या। निर्मात्री। जननी। (यथा)। येन प्रकारेण। (अभिचक्र)। करोतेर्लिटि मध्यमबहुवचने रूपम्। यूयम् अभिभूतवन्तः। जितवन्तः। (देवाः)। दिवु विजिगीषायाम्-अच्। हे विजिगीषवः। विजयिनः। (तथा)। तेन प्रकारेण। (अप कृणुत)। कृवि हिंसाकरणयोः। अपकुरुत। निवारयत शत्रून्। (पुनः)। अवधारणे। द्वितीयवारे ॥
इस भाष्य को एडिट करें