Loading...
अथर्ववेद > काण्ड 3 > सूक्त 9

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 9/ मन्त्र 5
    सूक्त - वामदेवः देवता - द्यावापृथिव्यौ, विश्वे देवाः छन्दः - चतुष्पदा निचृद्बृहती सूक्तम् - दुःखनाशन सूक्त

    दुष्ट्यै॒ हि त्वा॑ भ॒र्त्स्यामि॑ दूषयि॒ष्यामि॑ काब॒वम्। उदा॒शवो॒ रथा॑ इव श॒पथे॑भिः सरिष्यथ ॥

    स्वर सहित पद पाठ

    दुष्ट्यै॑ । हि । त्वा॒ । भ॒त्स्यामि॑ । दू॒ष॒यि॒ष्यामि॑ । का॒ब॒वम् । उत् । आ॒शव॑: । रथा॑:ऽइव । श॒पथे॑भि: । स॒रि॒ष्य॒थ॒ ॥९.५॥


    स्वर रहित मन्त्र

    दुष्ट्यै हि त्वा भर्त्स्यामि दूषयिष्यामि काबवम्। उदाशवो रथा इव शपथेभिः सरिष्यथ ॥

    स्वर रहित पद पाठ

    दुष्ट्यै । हि । त्वा । भत्स्यामि । दूषयिष्यामि । काबवम् । उत् । आशव: । रथा:ऽइव । शपथेभि: । सरिष्यथ ॥९.५॥

    अथर्ववेद - काण्ड » 3; सूक्त » 9; मन्त्र » 5

    टिप्पणीः - ५−(दुष्ट्यै)। दुष वैकृत्ये-क्तिन्। दोषनिवारणाय। (हि)। निश्चयेन। (त्वा)। शत्रुम्। (भर्त्स्यामि)। बन्धेर्लृटि। एकाच उपदेशेऽनुदात्तात्। पा० ७।२।१०। इति इट्प्रतिषेधः। नलोपश्छान्दसः। यद्वा। भस भर्त्सनदीप्त्योः। लृट्। छान्दस इडभावः। सः स्यार्धधातुके। पा० ७।४।४९। इति सस्य तः। बन्धे करिष्यामि। भर्त्सयिष्यामि। तिरस्करिष्यामि। (काबवम्)। म० ३। स्तुतिनाशकम्। (आशवः)। अशू व्याप्तौ-उण्। शीघ्रगामिनः। (रथाः)। हनिकुषिनीरमिकाशिभ्यः क्थन्। उ० २।२। इति रमु क्रीडे-क्थन्, अनुनासिकलोपः। स्यन्दनाः। (इव)। यथा। (शपथेभिः)। अ० २।७।१। शपथैः। शापैः। क्रोधवचनैः। (उत् सरिष्यथ)। सृ लृट्। उत् बन्धने चरिष्यथ गमिष्यथ ॥

    इस भाष्य को एडिट करें
    Top