अथर्ववेद - काण्ड 3/ सूक्त 9/ मन्त्र 2
सूक्त - वामदेवः
देवता - द्यावापृथिव्यौ, विश्वे देवाः
छन्दः - अनुष्टुप्
सूक्तम् - दुःखनाशन सूक्त
अ॑श्रे॒ष्माणो॑ अधारय॒न्तथा॒ तन्मनु॑ना कृ॒तम्। कृ॒णोमि॒ वध्रि॒ विष्क॑न्धं मुष्काब॒र्हो गवा॑मिव ॥
स्वर सहित पद पाठअ॒श्रे॒ष्माण॑: । अ॒धा॒र॒य॒न् । तथा॑ । तत् । मनु॑ना । कृ॒तम् । कृ॒णोमि॑ । वध्रि॑ । विऽस्क॑न्धम् । मु॒ष्क॒ऽआ॒ब॒र्ह: । गवा॑म्ऽइव ॥९.२॥
स्वर रहित मन्त्र
अश्रेष्माणो अधारयन्तथा तन्मनुना कृतम्। कृणोमि वध्रि विष्कन्धं मुष्काबर्हो गवामिव ॥
स्वर रहित पद पाठअश्रेष्माण: । अधारयन् । तथा । तत् । मनुना । कृतम् । कृणोमि । वध्रि । विऽस्कन्धम् । मुष्कऽआबर्ह: । गवाम्ऽइव ॥९.२॥
अथर्ववेद - काण्ड » 3; सूक्त » 9; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(अश्रेष्माणः)। सर्वधातुभ्यो मनिन्। उ० ४।१४५। इति श्रिवु दाहे-मनिन्। दाहशून्याः। अमत्सराः। (अधारयन्)। धृतवन्तः। (तथा)। तद्वदेव। (तत्)। धारणरूपं कर्म। (मनुना)। शॄस्वृस्निहि०। उ० १।१०। इति मन बोधे-उ। सर्वज्ञेन परमेश्वरेण। (कृतम्)। अनुष्ठितम्। (कृणोमि)। करोमि। (वध्रि)। अदिशदिभूशुभिभ्यः क्रिन्। उ० ४।६५। इति बन्ध बन्धने क्रिन्। बन्ध्यम्। विफलम्। निर्वीर्यम्। (विष्कन्धम्)। अ० १।१६।३। वि+स्कन्दिर् गतिशोषणयोः-अच्। विशेषेण शोषकम्। विघ्नजातम्। (मुष्काबर्हः)। सृवृभूशुषिमुषिभ्यः कक्। उ० ३।४१। इति मुष लुण्ठने, वधे च, कक्। कर्मण्यण्। पा० ३।२।१। इति मुष्क+आङ्-बर्ह वधे दीप्तौ च-अण्। मुष्कम् अण्डकोषम्। आवृहति उन्मूलयतीति। अण्डकोषछेदकः। (गवाम्)। पुंगवानाम्। (इव)। यथा ॥
इस भाष्य को एडिट करें