अथर्ववेद - काण्ड 4/ सूक्त 27/ मन्त्र 1
म॒रुतां॑ मन्वे॒ अधि॑ मे ब्रुवन्तु॒ प्रेमं वाजं॒ वाज॑साते अवन्तु। आ॒शूनि॑व सु॒यमा॑नह्व ऊ॒तये॒ ते नो॑ मुञ्च॒न्त्वंह॑सः ॥
स्वर सहित पद पाठम॒रुता॑म् । म॒न्वे॒ । अधि॑ । मे॒ । ब्रु॒व॒न्तु॒ । प्र । इ॒मम् । वाज॑म् । वाज॑ऽसाते । अ॒व॒न्तु॒ । आ॒शूनऽइ॑व । सु॒ऽयमा॑न् ।अ॒ह्वे॒ । ऊ॒तये॑ । ते । न॒: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥२७.१॥
स्वर रहित मन्त्र
मरुतां मन्वे अधि मे ब्रुवन्तु प्रेमं वाजं वाजसाते अवन्तु। आशूनिव सुयमानह्व ऊतये ते नो मुञ्चन्त्वंहसः ॥
स्वर रहित पद पाठमरुताम् । मन्वे । अधि । मे । ब्रुवन्तु । प्र । इमम् । वाजम् । वाजऽसाते । अवन्तु । आशूनऽइव । सुऽयमान् ।अह्वे । ऊतये । ते । न: । मुञ्चन्तु । अंहस: ॥२७.१॥
अथर्ववेद - काण्ड » 4; सूक्त » 27; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(मरुताम्) उ० १।२०।१। मारयन्ति दोषान् मरुतः। दोषनाशकानां प्राणापानव्यानरूपाणं वायूनाम् (मन्वे) मननं करोमि (मे) मह्यम् (अधि ब्रुवन्तु) अधिकमनुग्रहेण वदन्तु (इमम्) (वाजम्) बलम्-निघ० २।९। (वाजसाते) वाजः, अन्नम्-निघ० २।७। अनुपसर्गाल्लिम्पविन्द०। पा० ३।१।१३८। इति सूत्रे पठितः सातिः सौत्रो धातुः। सात सुखे-अच्। यद्वा षणु दाने-क्त। जनसनखनाम्। पा० ६।४।४२। इत्यात्वम्। वाजस्य अन्नस्य साते सुखे दाने वा निमित्तभूते सति (प्र अवन्तु) प्रकर्षेण तर्पयन्तु (आशून्) अ० २।१४।६। शीघ्रगामिनोऽश्वान् (इव) तथा (सुयमान्) शोभननियमयुक्तान् तान् मरुतः (अह्वे) ह्वेञ् आह्वाने-लुङ्। लिपिसिचिह्वश्च। पा० ३।१।५३। इति च्लेः अङ् आदेशः। आहूतवानस्मि (ऊतये) रक्षायै (ते) मरुतः (नः) अस्मान् (मुञ्चन्तु) मोचयन्तु (अंहसः) कष्टात् ॥
इस भाष्य को एडिट करें