अथर्ववेद - काण्ड 4/ सूक्त 27/ मन्त्र 3
पयो॑ धेनू॒नां रस॒मोष॑धीनां ज॒वमर्व॑तां कवयो॒ य इन्व॑थ। श॒ग्मा भ॑वन्तु म॒रुतो॑ नः स्यो॒नास्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥
स्वर सहित पद पाठपय॑: । धे॒नू॒नाम् । रस॑म् । ओष॑धीनाम् । ज॒वम् । अर्व॑ताम् । क॒व॒य॒: । ये । इन्व॑थ । श॒ग्मा । भ॒व॒न्तु॒ । म॒रुत॑: । न॒: । स्यो॒ना: । ते । न॒: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥२७.३॥
स्वर रहित मन्त्र
पयो धेनूनां रसमोषधीनां जवमर्वतां कवयो य इन्वथ। शग्मा भवन्तु मरुतो नः स्योनास्ते नो मुञ्चन्त्वंहसः ॥
स्वर रहित पद पाठपय: । धेनूनाम् । रसम् । ओषधीनाम् । जवम् । अर्वताम् । कवय: । ये । इन्वथ । शग्मा । भवन्तु । मरुत: । न: । स्योना: । ते । न: । मुञ्चन्तु । अंहस: ॥२७.३॥
अथर्ववेद - काण्ड » 4; सूक्त » 27; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(पयः) दुग्धम् (धेनूनाम्) अ० २।५।६। दुग्धं पावयित्रीणां गवाम् (रसम्) सारम् (ओषधीनाम्) अन्नादीनाम् (जवम्) ॠदोरप्। पा० ३।३।५७। इति जु वेगे-अप्। वेगम् (अर्वताम्) अ० ४।९।२। अश्वानाम् (कवयः) कुङ् गतिशोषणयोः-इन्। कवते गतिकर्मा-निघ० २।१४। गन्तारः। शोषयितारः (ये) यूयं मरुता (इन्वथः) इवि व्याप्तौ। इदित्वान्नुम्। व्यापयथ। स्थापयथ (शग्माः) अर्तिस्तुसुहु०। उ० १।१४०। इति शक्लृ-मन्। शक्तारः। समर्थाः (भवन्तु) (मरुतः) वायवः (नः) अस्मभ्यम् (स्योनाः) सुखकराः। अन्यत् पूर्ववत् ॥
इस भाष्य को एडिट करें