Loading...
अथर्ववेद > काण्ड 4 > सूक्त 27

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 27/ मन्त्र 2
    सूक्त - मृगारः देवता - मरुद्गणः छन्दः - त्रिष्टुप् सूक्तम् - पापमोचन सूक्त

    उत्स॒मक्षि॑तं॒ व्यच॑न्ति॒ ये सदा॒ य आ॑सि॒ञ्चन्ति॒ रस॒मोष॑धीषु। पु॒रो द॑धे म॒रुतः॒ पृश्नि॑मातॄं॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥

    स्वर सहित पद पाठ

    उत्स॑म् । अक्षि॑तम् । वि॒ऽअच॑न्ति । ये । सदा॑ । ये । आ॒ऽसि॒ञ्चन्ति॑ । रस॑म् । ओष॑धीषु । पु॒र: । द॒धे॒ । म॒रुत॑: । पृश्नि॑ऽमातृन् । ते । न॒: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥२७.२॥


    स्वर रहित मन्त्र

    उत्समक्षितं व्यचन्ति ये सदा य आसिञ्चन्ति रसमोषधीषु। पुरो दधे मरुतः पृश्निमातॄंस्ते नो मुञ्चन्त्वंहसः ॥

    स्वर रहित पद पाठ

    उत्सम् । अक्षितम् । विऽअचन्ति । ये । सदा । ये । आऽसिञ्चन्ति । रसम् । ओषधीषु । पुर: । दधे । मरुत: । पृश्निऽमातृन् । ते । न: । मुञ्चन्तु । अंहस: ॥२७.२॥

    अथर्ववेद - काण्ड » 4; सूक्त » 27; मन्त्र » 2

    टिप्पणीः - २−(उत्सम्) अ० १।१५।३। सेचनसाधनं जलं वा (अक्षितम्) अक्षीणम् (व्यचन्ति) अञ्चु अचु गतौ याचने च, अन्तर्गतो ण्यर्थः। विविधं गमयन्ति (ये) मरुतः (सदा) पर्वदा (आसिञ्चन्ति) समन्तात् क्षारयन्ति वर्षयन्ति (रसम्) सारम् (ओषधीषु) व्रीहियवाद्यासु तरुगुल्मादिषु च (पुरोदधे) पुरस्ताद् धारयामि। भजामि। पूजयामि (मरुतः) दोषनाशकान् वायून् (पृश्निमातॄन्) घृणिपृश्निपार्ष्णि०। उ० ४।५२। इति स्पृश संस्पर्शे-नि। धातोः पृशू भावः। पृश्निः.... द्यौः संस्पृष्टा ज्योतिर्भिः पुण्यकृद्भिश्च-निरु० २।१४। ण्वुल्तृचौ। पा० ३।१।१३३। इति माङ् माने-तृच्। पृश्नीनां स्पर्शनीयानां पदार्थानाम्। अथवा। पृश्नेर्दिव आकाशस्य मातरो मानकर्तारः परिच्छेत्तारो ये तान्। अन्यत् पूर्ववत् ॥

    इस भाष्य को एडिट करें
    Top