अथर्ववेद - काण्ड 4/ सूक्त 27/ मन्त्र 7
ति॒ग्ममनी॑कं विदि॒तं सह॑स्व॒न्मारु॑तं॒ शर्धः॒ पृत॑नासू॒ग्रम्। स्तौमि॑ म॒रुतो॑ नाथि॒तो जो॑हवीमि॒ ते नो॑ मुञ्च॒न्त्वंह॑सः ॥
स्वर सहित पद पाठति॒ग्मम् । अनी॑कम् । वि॒दि॒तम् । सह॑स्वत् । मारु॑तम् । शर्ध॑: । पृत॑नासु । उ॒ग्रम् । स्तौमि॑ । म॒रुत॑: । ना॒थि॒त: । जो॒ह॒वी॒मि॒ । ते । न॒: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥२७.७॥
स्वर रहित मन्त्र
तिग्ममनीकं विदितं सहस्वन्मारुतं शर्धः पृतनासूग्रम्। स्तौमि मरुतो नाथितो जोहवीमि ते नो मुञ्चन्त्वंहसः ॥
स्वर रहित पद पाठतिग्मम् । अनीकम् । विदितम् । सहस्वत् । मारुतम् । शर्ध: । पृतनासु । उग्रम् । स्तौमि । मरुत: । नाथित: । जोहवीमि । ते । न: । मुञ्चन्तु । अंहस: ॥२७.७॥
अथर्ववेद - काण्ड » 4; सूक्त » 27; मन्त्र » 7
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ७−(तिग्मम्) युजिरुजितिजां कुश्च। उ० १।१४६। इति तिज निशाने-मक्, कुत्वं च। तीक्ष्णम् (अनीकम्) अनिहृषिभ्यां किच्च। उ० ४।१७। इति अन प्राणने-ईकन्। सैन्यम् (विदितम्) प्रख्यातम् (सहस्वत्) बलवत् (मारुतम्) मरुतां सम्बन्धि (शर्धः) शर्द्धतिरुत्साहार्थः-असुन्। इति देवराजयज्वा निघण्टुटीकायाम्। बलम् निघ० २।९। (पृतनासु) अ० ३।२१।३। संग्रामेषु (उग्रम्) प्रचण्डम्। अन्यत् पूर्ववत् ॥
इस भाष्य को एडिट करें