अथर्ववेद - काण्ड 4/ सूक्त 38/ मन्त्र 5
सूक्त - बादरायणिः
देवता - वाजिनीवान् ऋषभः
छन्दः - भुरिगत्यष्टिः
सूक्तम् - वाजिनीवान् ऋषभ सूक्त
सूर्य॑स्य र॒श्मीननु॒ याः स॒ञ्चर॑न्ति॒ मरी॑चीर्वा॒ या अ॑नुस॒ञ्चर॑न्ति। यासा॑मृष॒भो दू॑र॒तो वा॒जिनी॑वान्त्स॒द्यः सर्वा॑न्लो॒कान्प॒र्येति॒ रक्ष॑न्। स न॒ ऐतु॒ होम॑मि॒मं जु॑षाणो॑३ऽन्तरि॑क्षेण स॒ह वा॒जिनी॑वान् ॥
स्वर सहित पद पाठसूर्य॑स्य । र॒श्मीन् । अनु॑ । या: । स॒म्ऽचर॑न्ति । मरी॑ची: । वा॒ । या: । अ॒नु॒ऽसं॒चर॑न्ति । यासा॑म् । ऋ॒ष॒भ: । दू॒र॒त: । वा॒जिनी॑ऽवान् । स॒द्य: । सर्वा॑न् । लो॒कान् । प॒रि॒ऽएति॑ । रक्ष॑न् । स: । न॒: । आ । ए॒तु॒ । होम॑म् । इ॒मम् । जु॒षा॒ण: । अ॒न्तरि॑क्षेण । स॒ह । वा॒जिनी॑ऽवान् ॥३८.५॥
स्वर रहित मन्त्र
सूर्यस्य रश्मीननु याः सञ्चरन्ति मरीचीर्वा या अनुसञ्चरन्ति। यासामृषभो दूरतो वाजिनीवान्त्सद्यः सर्वान्लोकान्पर्येति रक्षन्। स न ऐतु होममिमं जुषाणो३ऽन्तरिक्षेण सह वाजिनीवान् ॥
स्वर रहित पद पाठसूर्यस्य । रश्मीन् । अनु । या: । सम्ऽचरन्ति । मरीची: । वा । या: । अनुऽसंचरन्ति । यासाम् । ऋषभ: । दूरत: । वाजिनीऽवान् । सद्य: । सर्वान् । लोकान् । परिऽएति । रक्षन् । स: । न: । आ । एतु । होमम् । इमम् । जुषाण: । अन्तरिक्षेण । सह । वाजिनीऽवान् ॥३८.५॥
अथर्ववेद - काण्ड » 4; सूक्त » 38; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५−(सूर्यस्य) आदित्यस्य (रश्मीन्) अ० २।३२।१। व्यापकान् किरणान् (अनु) अनुसृत्य (याः) अप्सराः। ईश्वरशक्त्यः। (संचरन्ति) सम्यग् गच्छन्ति (मरीचीः) म्रियन्ते तमांसि यया। मृकणिभ्यामीचिः। उ० ४।७०। इति मृङ्-ईचि। दीप्तीः। प्रकाशान् (वा) वेति विचारणार्थे.... अथापि समुच्चयार्थे भवति-निरु० १।४। (अनुसंचरन्ति) अनुलक्ष्य व्याप्नुवन्ति (यासाम्)=तासाम् अप्सराणाम् (ऋषभः) अ० ३।६।४। द्रष्टा सर्वश्रेष्ठः परमेश्वरः (दूरतः) दूरदेशात्। अगम्यस्थानात् (वाजिनीवान्) अन्नवतीक्रियावान् (सद्यः) अ० २।१।४। तत्क्षणम् (सर्वान्) (लोकान्) दृश्यमानानि भुवनानि (पर्यैति) परित आ-गच्छति (रक्षन्) पालयन् (सः) (नः) अस्माकम् (ऐतु) आगच्छतु (होमम्) अर्त्तिस्तुसुहु०। उ० १।१४०। इति हु दानादानादनेषु-मन्। आत्मदानम् (इमम्) (जुषाणः) सेवमानः (अन्तरिक्षेण) सर्वमध्यदृश्यमानेन सामर्थ्येन (सह) (वाजिनीनाम्) बलवतीक्रियायुक्तः ॥
इस भाष्य को एडिट करें