अथर्ववेद - काण्ड 4/ सूक्त 38/ मन्त्र 6
सूक्त - बादरायणिः
देवता - वाजिनीवान् ऋषभः
छन्दः - त्रिष्टुप्
सूक्तम् - वाजिनीवान् ऋषभ सूक्त
अ॒न्तरि॑क्षेण स॒ह वा॑जिनीवन्क॒र्कीं व॒त्सामि॒ह र॑क्ष वाजिन्। इ॒मे ते॑ स्तो॒का ब॑हु॒ला एह्य॒र्वाङि॒यं ते॑ क॒र्कीह ते॒ मनो॑ऽस्तु ॥
स्वर सहित पद पाठअ॒न्तरि॑क्षेण । स॒ह । वा॒जि॒नी॒ऽव॒न् । क॒र्कीम् । व॒त्साम् । इ॒ह । र॒क्ष॒ । वा॒जि॒न् । इ॒मे । ते॒ । स्तो॒का: । ब॒हु॒ला: । आ । इ॒हि॒ । अ॒र्वाङ् । इ॒यम् । ते॒ । क॒र्की । इ॒ह । ते॒ । मन॑: । अ॒स्तु॒ ॥३८.६॥
स्वर रहित मन्त्र
अन्तरिक्षेण सह वाजिनीवन्कर्कीं वत्सामिह रक्ष वाजिन्। इमे ते स्तोका बहुला एह्यर्वाङियं ते कर्कीह ते मनोऽस्तु ॥
स्वर रहित पद पाठअन्तरिक्षेण । सह । वाजिनीऽवन् । कर्कीम् । वत्साम् । इह । रक्ष । वाजिन् । इमे । ते । स्तोका: । बहुला: । आ । इहि । अर्वाङ् । इयम् । ते । कर्की । इह । ते । मन: । अस्तु ॥३८.६॥
अथर्ववेद - काण्ड » 4; सूक्त » 38; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६−(अन्तरिक्षेण) सर्वमध्यदृश्यमानेन सामर्थ्येन (सह) (वाजिनीवन्) वाजिनी अन्नवती बलवती वा क्रिया तया तद्वन् (कर्कीम्) कृदाधा०। उ० ३।४०। इति डुकृञ्-क, ङीप्। कर्त्त्रीं शक्तिम् (वत्साम्) वृतॄवदिवचिवसि०। उ० ३।६२। इति वस निवासे-स। निवासयित्रीम् (इह) अस्मिन् शरीरे (रक्ष) पालय (वाजिन्) हे बलवन् (इमे) दृश्यमानाः (ते) तव (स्तोकाः) ष्टुच प्रसादे-घञ्। प्रसादाः। अनुग्रहाः। यद्वा। आद्यन्तविपर्ययो भवति, स्तोकाः-निरु० २।१। इति श्चुतिर् क्षरणे-घञ्। विन्दवः (बहुलाः) अ० ३।१४।६। वृद्धिशीलाः। बहुदातारः (एहि) आगच्छ (अर्वाङ्) अभिमुखः (इयम्) (ते) (कर्की) कर्त्री शक्तिः (इह) (ते) (मनः) मननम्। विज्ञानम् (अस्तु) भवतु ॥
इस भाष्य को एडिट करें