Loading...
अथर्ववेद > काण्ड 4 > सूक्त 38

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 38/ मन्त्र 7
    सूक्त - बादरायणिः देवता - वाजिनीवान् ऋषभः छन्दः - त्र्यवसाना पञ्चपदानुष्टुब्गर्भा पुरउपरिष्टाज्ज्योतिष्मती जगती सूक्तम् - वाजिनीवान् ऋषभ सूक्त

    अ॒न्तरि॑क्षेण स॒ह वा॑जिनीवन्क॒र्कीं व॒त्सामि॒ह र॑क्ष वाजिन्। अ॒यं घा॒सो अ॒यं व्र॒ज इ॒ह व॒त्सां नि ब॑ध्नीमः। य॑थाना॒म व॑ ईश्महे॒ स्वाहा॑ ॥

    स्वर सहित पद पाठ

    अ॒न्तरि॑क्षेण । स॒ह । वा॒जि॒नी॒ऽव॒न् । क॒र्कीम् । व॒त्साम् । इ॒ह । र॒क्ष॒ । वा॒जि॒न् । अ॒यम् । घा॒स: । अ॒यम् । व्र॒ज: । इ॒ह । व॒त्साम् । नि । ब॒ध्नी॒म॒: । य॒था॒ऽना॒म् । व॒: । ई॒श्म॒हे॒ । स्वाहा॑ ॥३८.७॥


    स्वर रहित मन्त्र

    अन्तरिक्षेण सह वाजिनीवन्कर्कीं वत्सामिह रक्ष वाजिन्। अयं घासो अयं व्रज इह वत्सां नि बध्नीमः। यथानाम व ईश्महे स्वाहा ॥

    स्वर रहित पद पाठ

    अन्तरिक्षेण । सह । वाजिनीऽवन् । कर्कीम् । वत्साम् । इह । रक्ष । वाजिन् । अयम् । घास: । अयम् । व्रज: । इह । वत्साम् । नि । बध्नीम: । यथाऽनाम् । व: । ईश्महे । स्वाहा ॥३८.७॥

    अथर्ववेद - काण्ड » 4; सूक्त » 38; मन्त्र » 7

    टिप्पणीः - ७−(अन्तरिक्षेणेत्यादि) पूर्वोऽर्धर्चः पूर्ववद् योज्यः (अयम्) उपस्थितः (घासः) घञपोश्च। पा० २।४।३८। इति अदो घस्लृ आदेशो घञि। अदनीयः पदार्थः (अयम्) (व्रजः) गोचरसंचरवहव्रज०। पा० ३।३।११९। इति व्रज गतौ घ। गमनप्रदेशः (इह) अस्मिन् विषये (वत्साम्) म० ६। निवासयित्रीं शक्तिम् (नि) नितराम् (बध्नीमः) हृदये धारयामः (यथानाम) यादृशगुणविशिष्टं नामास्ति तथैव। (वः) आदरे बहुवचनम्। तव (ईश्महे) ऐश्वर्यवन्तो भवामः (स्वाहा) अ० २।१६।१। सुवाणी। आशीर्वादः। सुदानम् ॥

    इस भाष्य को एडिट करें
    Top