Loading...
अथर्ववेद > काण्ड 4 > सूक्त 7

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 7/ मन्त्र 3
    सूक्त - गरुत्मान् देवता - वनस्पतिः छन्दः - अनुष्टुप् सूक्तम् - विषनाशन सूक्त

    क॑र॒म्भं कृ॒त्वा ति॒र्यं॑ पीबस्पा॒कमु॑दार॒थिम्। क्षु॒धा किल॑ त्वा दुष्टनो जक्षि॒वान्त्स न रू॑रुपः ॥

    स्वर सहित पद पाठ

    क॒र॒म्भम् । कृ॒त्वा । ति॒र्य᳡म् । पी॒ब॒:ऽपा॒कम् । उ॒दा॒र॒थिम् । क्षु॒धा । किल॑ । त्वा॒ । दु॒स्त॒नो॒ इति॑ दु:ऽतनो । ज॒क्षि॒ऽवान् । स: । न । रू॒रु॒प॒: ॥७.३॥


    स्वर रहित मन्त्र

    करम्भं कृत्वा तिर्यं पीबस्पाकमुदारथिम्। क्षुधा किल त्वा दुष्टनो जक्षिवान्त्स न रूरुपः ॥

    स्वर रहित पद पाठ

    करम्भम् । कृत्वा । तिर्यम् । पीब:ऽपाकम् । उदारथिम् । क्षुधा । किल । त्वा । दुस्तनो इति दु:ऽतनो । जक्षिऽवान् । स: । न । रूरुप: ॥७.३॥

    अथर्ववेद - काण्ड » 4; सूक्त » 7; मन्त्र » 3

    टिप्पणीः - ३−(करम्भम्) म० २। जलसेचनम्। दधिसक्तून् (कृत्वा) विधाय (तिर्यम्) सर्वधातुभ्योऽसुन्। उ० ४।१८९। इति तॄ प्लवनतरणयोः-असुन्। गुणविषये इर्। तरतीति तिरः। तत्र साधुः। पा० ४।४।९८। इति यत्। अव्ययानां च०। वा० पा० ६।४।१४४। इति टिलोपः। तरणे रोगजये समर्थम्। रोगतिरस्कारे कुशलम् (पीवस्पाकम्) सर्वधातुभ्योऽसुन्। उ० ४।१८९। इति पीव स्थौल्ये-असुन्। पचे करणे-घञ्। पीवः स्थौल्यं मेदो वा रोगविशेषः पच्यते येन तम् (उदारथिम्) उद्यर्त्तेश्चित्। उ० ४।८८। इति उत्+ऋ गतौ-घथिन्। छान्दसो दीर्घः। उदरथिम्। उद्गमयितारम् जाठराग्नेरुद्दीपयितारम् (क्षुधा) बुभुक्षया (किल) तिरस्कारेण। निश्चयेन (त्वा) सुपां सुपो भवन्ति। वा० पा० ७।१।३९। इति चतुर्थ्यर्थे द्वितीया, त्वदर्थम्। तव निवारणायेत्यर्थः (दुष्टनो) दुर्-तनो। हे शरीरदूषक ! (जक्षिवान्) अदेर्लिटः लिट्यन्यतरस्याम्। पा० २।४।४०। इति घस्लृ आदेशः। वस्वेकाजाद्घसाम्। पा० ७।२।६७। इति इटि कृतं उपधालोपे स्थानिवद्भावाद् द्विर्वचनादि। भक्षितवान् यः पुरुषः, तम् इति शेषः (सः) स त्वम् (न) नहि (रूरुपः) रुप विमोहने। ण्यन्ताल् लुङि चङि रूपम् अडभावः। अरूरुपः। अमूमुहः। मूर्छितम् अकार्षीः ॥

    इस भाष्य को एडिट करें
    Top