Loading...
अथर्ववेद > काण्ड 4 > सूक्त 7

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 7/ मन्त्र 5
    सूक्त - गरुत्मान् देवता - वनस्पतिः छन्दः - अनुष्टुप् सूक्तम् - विषनाशन सूक्त

    परि॒ ग्राम॑मि॒वाचि॑तं॒ वच॑सा स्थापयामसि। तिष्ठा॑ वृ॒क्ष इ॑व॒ स्थाम्न्यभ्रि॑खाते॒ न रू॑रुपः ॥

    स्वर सहित पद पाठ

    परि॑ । ग्राम॑म्ऽइव । आऽचि॑तम् । वच॑सा । स्था॒प॒या॒म॒सि॒ । तिष्ठ॑ । वृ॒क्ष:ऽइ॑व । स्थाम्नि॑ । अभ्रि॑ऽखाते । न । रू॒रु॒प॒:। ७.५॥


    स्वर रहित मन्त्र

    परि ग्राममिवाचितं वचसा स्थापयामसि। तिष्ठा वृक्ष इव स्थाम्न्यभ्रिखाते न रूरुपः ॥

    स्वर रहित पद पाठ

    परि । ग्रामम्ऽइव । आऽचितम् । वचसा । स्थापयामसि । तिष्ठ । वृक्ष:ऽइव । स्थाम्नि । अभ्रिऽखाते । न । रूरुप:। ७.५॥

    अथर्ववेद - काण्ड » 4; सूक्त » 7; मन्त्र » 5

    टिप्पणीः - ५−(परि) परितः सर्वतः (ग्रामम्) ग्रसेरा च। उ० १।१४३। इति ग्रस ग्रहणे, भक्षणे-मन्, धातोराकारः। जनसमूहम्। शत्रुवृन्दम् (इव) यथा (आचितम्) आङ्+चि-क्त। आकीर्णम्। व्याप्तम् (वचसा) वचनमात्रेण (स्थापयामसि) दध्मः (तिष्ठ) स्थिता भव (वृक्ष इव) यथा वृक्षो निश्चलो भूत्वा (स्थाम्नि) सर्वधातुभ्यो मनिन् उ० ४।१४५। इति ष्ठा गतिनिवृत्तौ-मनिन् स्वस्थाने। मूले (अभ्रिखाते) सर्वधातुभ्य इन् उ० ४।११८। इति अभ्र गतौ-इन् अपादाने। अभ्रिः काष्ठकुद्दालः। तीक्ष्णाग्रो लोहदण्डः। खन विदारे-क्त। हे खननसाधनेन विदारिते ओषधे (न) नहि (रूरुपः) म० ३। अमूमुहः ॥

    इस भाष्य को एडिट करें
    Top