Loading...
अथर्ववेद > काण्ड 4 > सूक्त 8

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 8/ मन्त्र 2
    सूक्त - अथर्वाङ्गिराः देवता - चन्द्रमाः, आपः, राज्याभिषेकः छन्दः - अनुष्टुप् सूक्तम् - राज्यभिषेक सूक्त

    अ॒भि प्रेहि॒ माप॑ वेन उ॒ग्रश्चे॒त्ता स॑पत्न॒हा। आ ति॑ष्ठ मित्रवर्धन॒ तुभ्यं॑ दे॒वा अधि॑ ब्रुवन् ॥

    स्वर सहित पद पाठ

    अ॒भि । प्र । इ॒हि॒ । मा । अप॑ । वे॒न॒: । उ॒ग्र: । चे॒त्ता । स॒प॒त्न॒ऽहा । आ । ति॒ष्ठ॒ । मि॒त्र॒ऽव॒र्ध॒न॒ । तुभ्य॑म् । दे॒वा: । अधि॑ । ब्रु॒व॒न् ॥८.२॥


    स्वर रहित मन्त्र

    अभि प्रेहि माप वेन उग्रश्चेत्ता सपत्नहा। आ तिष्ठ मित्रवर्धन तुभ्यं देवा अधि ब्रुवन् ॥

    स्वर रहित पद पाठ

    अभि । प्र । इहि । मा । अप । वेन: । उग्र: । चेत्ता । सपत्नऽहा । आ । तिष्ठ । मित्रऽवर्धन । तुभ्यम् । देवा: । अधि । ब्रुवन् ॥८.२॥

    अथर्ववेद - काण्ड » 4; सूक्त » 8; मन्त्र » 2

    टिप्पणीः - २−(अभि) अभितः सर्वतः (प्रेहि) प्रगच्छ (मा अप वेनः) वेनतिः कान्तिकर्मा-निघ० २।६। गतिकर्मा०-२।१४। अर्चतिकर्मा-३।१४। माप गच्छ (उग्रः) तीव्रस्वभावः (चेत्ता) चिती संज्ञाने-तृन्। चेतिता। ज्ञानवान् (सपत्नहा) अ० १।२९।५। शत्रूणां हन्ता (आतिष्ठ) राजासनं हस्त्यश्वादियानं च आरोह (मित्रवर्धन) नन्दिग्रहिपचादि०। पा० ३।१।१३४। इति वृधेर्ण्यन्तात्-ल्यु। हे मित्राणां वर्धयितः (तुभ्यम्) (देवाः) विजिगीषवो विद्वांसः (अधि ब्रुवन्) ब्रूञ् व्यक्तायां वाचि-लङ्। अधि अब्रुवन्। अधि-वचनम् अनुग्रहवचनम् उच्चारितवन्तः ॥

    इस भाष्य को एडिट करें
    Top