अथर्ववेद - काण्ड 4/ सूक्त 8/ मन्त्र 7
सूक्त - अथर्वाङ्गिराः
देवता - चन्द्रमाः, आपः, राज्याभिषेकः
छन्दः - भुरिगनुष्टुप्
सूक्तम् - राज्यभिषेक सूक्त
ए॒ना व्या॒घ्रं प॑रिषस्वजा॒नाः सिं॒हं हि॑न्वन्ति मह॒ते सौभ॑गाय। स॑मु॒द्रं न॑ सु॒भुव॑स्तस्थि॒वांसं॑ मर्मृ॒ज्यन्ते॑ द्वी॒पिन॑म॒प्स्वन्तः ॥
स्वर सहित पद पाठए॒ना । व्या॒घ्रम् । प॒रि॒ऽस॒स्व॒जा॒ना: । सिं॒हम् । हि॒न्व॒न्ति॒ । म॒ह॒ते । सौभ॑गाय । स॒मु॒द्रम् । न । सु॒ऽभुव॑: । त॒स्थि॒ऽवांस॑म् । म॒र्मृ॒ज्यन्ते॑ । द्वी॒पिन॑म् । अ॒प्ऽसु । अ॒न्त: ॥८.७॥
स्वर रहित मन्त्र
एना व्याघ्रं परिषस्वजानाः सिंहं हिन्वन्ति महते सौभगाय। समुद्रं न सुभुवस्तस्थिवांसं मर्मृज्यन्ते द्वीपिनमप्स्वन्तः ॥
स्वर रहित पद पाठएना । व्याघ्रम् । परिऽसस्वजाना: । सिंहम् । हिन्वन्ति । महते । सौभगाय । समुद्रम् । न । सुऽभुव: । तस्थिऽवांसम् । मर्मृज्यन्ते । द्वीपिनम् । अप्ऽसु । अन्त: ॥८.७॥
अथर्ववेद - काण्ड » 4; सूक्त » 8; मन्त्र » 7
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ७−(एना) द्वितीयाटौस्स्वेनः। पा० २।४।३४। इति एतच्छब्दस्य एनादेशो द्वितीयायाम्। सुपां सुलुक्०। पा० ७।१।३९। इति विभक्तेः आच्। चितः। पा० ६।१।१६३। इति चित्वाद् अन्तोदात्तः। एनम् (व्याघ्रम्) व्याघ्रवत् पराक्रमयुक्तम् (परिषस्वजानाः) ष्वञ्ज सङ्गे-लिटः कानच्। आलिङ्गन्तः। परितः संगच्छमानाः पुरुषाः (सिंहम्) सिचेः संज्ञायां हनुमौ कश्च। उ० ५।६२। इति षिच क्षरणे क प्रत्ययः, चस्य हकारो नुम् च। यद्वा। आद्यन्तविपर्यये। हिसि वधे-अच्। हिनस्तीति सिंहः। पञ्चास्यः। सिंहः सहनाद्धिंसेर्वा स्याद् विपरीतस्य सम्पूर्वस्य वा हन्तेः संहाय हन्तीति वा-निरु० ३।१८, सिंहतुल्यपराक्रमवन्तं राजानम् (हिन्वन्ति) हिवि प्रीणने। इदित्त्वान्नुम्। प्रीणयन्ति। तर्पयन्ति (महते) अधिकाय (सौभगाय) प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ्। पा० ५।१।१२९। इति सुभग मन्त्रे, इति उद्गात्रादिषु पाठाद् भावे अञ्। ञित्यादिर्नित्यम्। पा० ६।१।१९७। इति आद्युदात्तः। सुभगत्वाय। शोभनैश्वर्याय (समुद्रम् न) समुद्रवद् गम्भीरस्वभावम् (सुभुवः) सु+भू-क्विप्। शोभना भूरुत्पत्तिर्भूमिर्वा यस्य स सुभूः शोभनजन्मानः। यद्वा। शोभनभूमयः पुरुषाः (तस्थिवांसम्) ष्ठा गतिनिवृत्तौ-क्वसु। स्थितवन्तम् (मर्मृज्यन्ते) मृजू शौचालंकारयोः। यङि निपातनादभ्यासस्य रुगागमः। पुनः पुनः, अत्यर्थं वा शोधयन्ति अलंकुर्वन्ति वा (द्वीपिनम्) द्वि+ई गतौ-प प्रत्ययः। द्वौ वर्णौ ईयते द्वीपं द्विवर्णं चर्म। अत इनिठनौ। पा० ५।२।१२५। इति इनि। शार्दूलवद् अधृष्यं राजानम् (अप्सु) उदकेषु (अन्तः) मध्ये ॥
इस भाष्य को एडिट करें