Loading...
अथर्ववेद > काण्ड 4 > सूक्त 9

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 9/ मन्त्र 1
    सूक्त - भृगुः देवता - त्रैककुदाञ्जनम् छन्दः - अनुष्टुप् सूक्तम् - आञ्जन सूक्त

    एहि॑ जी॒वं त्राय॑माणं॒ पर्व॑तस्या॒स्यक्ष्य॑म्। विश्वे॑भिर्दे॒वैर्द॒त्तं प॑रि॒धिर्जीव॑नाय॒ कम् ॥

    स्वर सहित पद पाठ

    आ । इ॒हि॒ । जी॒वम् । त्राय॑माणम् । पर्व॑तस्य । अ॒सि॒ । अक्ष्य॑म् । विश्वे॑भि: । दे॒वै: । द॒त्तम् । प॒रि॒ऽधि: । जीव॑नाय । कम् ॥९.१॥


    स्वर रहित मन्त्र

    एहि जीवं त्रायमाणं पर्वतस्यास्यक्ष्यम्। विश्वेभिर्देवैर्दत्तं परिधिर्जीवनाय कम् ॥

    स्वर रहित पद पाठ

    आ । इहि । जीवम् । त्रायमाणम् । पर्वतस्य । असि । अक्ष्यम् । विश्वेभि: । देवै: । दत्तम् । परिऽधि: । जीवनाय । कम् ॥९.१॥

    अथर्ववेद - काण्ड » 4; सूक्त » 9; मन्त्र » 1

    टिप्पणीः - १−(एहि) आगच्छ (जीवम्) इगुपधज्ञा०। पा० ३।१।१३५। इति जीव प्राणधारणे-क। जीवति प्राणयतीति जीवः। प्राणिनम्। आत्मानम् (त्रायमाणम्) त्रैङ् पालने-शानच्। पालयन् (पर्वतस्य) भृमृदृशियजिपर्वि०। उ० ३।११०। इति पर्व पूरणे-अतच्। यद्वा। पर्वतो मेघः-निघ० १।१०। पर्वमरुद्भ्यां तन् वक्तव्यः। वा० पा० ५।२।१२२। इति पर्वन्-मत्वर्थे तन्। पर्ववान् पर्वतः पर्व पुनः पृणातेः प्रीणातेर्वा। निरु० १।२०। इष्टपूरकस्य यद्वा अवयवयुक्तस्य मेघस्य (असि) भवसि (अक्ष्यम्) अशेर्देवने। उ० ३।६५। इति अशू व्याप्तौ-स। अक्षो व्यवहारः। अक्ष-यत्। अक्षाय व्यवहाराय हितम् (विश्वेभिः) सर्वैः (देवैः) दिव्यगुणैः सह (दत्तम्) हृदये समर्पितम् (परिधिः) उपसर्गे घोः किः। पा० ३।३।९२। इति परि+धाञ्-कि। परितो धीयते परिधिः प्राकारः (जीवनाय) चिरकालजीवनार्थम् (कम्) कच दीप्तौ-ड। सुखस्वरूपं ब्रह्म ॥

    इस भाष्य को एडिट करें
    Top