Loading...
अथर्ववेद > काण्ड 4 > सूक्त 9

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 9/ मन्त्र 8
    सूक्त - भृगुः देवता - त्रैककुदाञ्जनम् छन्दः - अनुष्टुप् सूक्तम् - आञ्जन सूक्त

    त्रयो॑ दा॒सा आञ्ज॑नस्य त॒क्मा ब॒लास॒ आदहिः॑। वर्षि॑ष्ठः॒ पर्व॑तानां त्रिक॒कुन्नाम॑ ते पि॒ता ॥

    स्वर सहित पद पाठ

    त्रय॑: । दा॒सा: । आ॒ऽअञ्ज॑नस्य । त॒क्मा । ब॒लास॑: । आत् । अहि॑: । वर्षि॑ष्ठ: । पर्व॑तानाम् । त्रि॒ऽक॒कुत् । नाम॑ । ते॒ । पि॒ता ॥९.८॥


    स्वर रहित मन्त्र

    त्रयो दासा आञ्जनस्य तक्मा बलास आदहिः। वर्षिष्ठः पर्वतानां त्रिककुन्नाम ते पिता ॥

    स्वर रहित पद पाठ

    त्रय: । दासा: । आऽअञ्जनस्य । तक्मा । बलास: । आत् । अहि: । वर्षिष्ठ: । पर्वतानाम् । त्रिऽककुत् । नाम । ते । पिता ॥९.८॥

    अथर्ववेद - काण्ड » 4; सूक्त » 9; मन्त्र » 8

    टिप्पणीः - ८−(त्रयः) त्रिसंख्याकाः (दासाः) दंसेष्टटनौ न आ च। उ० ५।१०। इति दसि दर्शने-ट। दंसयति पश्यतीति दासः। यद्वा। दास दाने-अच्। दासति ददाति आत्मानं स दासः। सेवकाः (आञ्जनस्य) म० ३। जगतो व्यक्तीकारकस्य ब्रह्मणः (तक्मा) अ० १।२५।१। कृच्छ्रजीवनकारी ज्वरः (बलासः) बल+असुक्षेपणे-अण्। बलमस्यति क्षिपतीति। श्लेष्मविकारः (आत्) अपि च (अहिः) अ० २।५।५। आहन्ता। सर्पः (वर्षिष्ठः) प्रियस्थिर०। पा० ६।४।१५७। इति वृद्ध-इष्ठन्। वर्षि इत्यादेशः। वृद्धतमः (पर्वतानाम्) म० १। पर्ववान् पर्वतः-निरु० १।२०। पर्ववतां लोकानाम् (त्रिककुत्) त्रि+क+कुत्। कं सुखम्-निघ० ३।६। कवते, गतिकर्मा-निघ० २।१४। कुङ् गतिशोषणयोः-क्विप्, तुक् च। अन्तर्भावितण्यर्थः, पृषोदरादित्वात् तस्य दः। आध्यात्मिकादीनि त्रीणि कानि सुखानि कावयति गमयति स त्रिककुत्। यद्वा। मृग्रोरुतिः। उ० १।९४। इति त्रि+ककि गतौ-उति, तस्य दः। त्रिषु लोकेषु कालेषु वा ककुद् गतिर्यस्य सः (नाम) संज्ञा (ते) तव (पिता) सर्वस्य पाता पालयिता वा ॥

    इस भाष्य को एडिट करें
    Top