Loading...
अथर्ववेद > काण्ड 4 > सूक्त 9

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 9/ मन्त्र 5
    सूक्त - भृगुः देवता - त्रैककुदाञ्जनम् छन्दः - अनुष्टुप् सूक्तम् - आञ्जन सूक्त

    नैनं॒ प्राप्नो॑ति श॒पथो॒ न कृ॒त्या नाभि॒शोच॑नम्। नैनं॒ विष्क॑न्धमश्नुते॒ यस्त्वा॒ बिभ॑र्त्याञ्जन ॥

    स्वर सहित पद पाठ

    न । ए॒न॒म् । प्र । आ॒प्नो॒ति॒ । श॒पथ॑: । न । कृ॒त्या । न । अ॒भिऽशोच॑नम् । न । ए॒न॒म् । विऽस्क॑न्धम् । अ॒श्नु॒ते॒ । य: । त्वा॒ । बिभ॑र्ति । आ॒ऽअ॒ञ्ज॒न॒ ॥९.५॥


    स्वर रहित मन्त्र

    नैनं प्राप्नोति शपथो न कृत्या नाभिशोचनम्। नैनं विष्कन्धमश्नुते यस्त्वा बिभर्त्याञ्जन ॥

    स्वर रहित पद पाठ

    न । एनम् । प्र । आप्नोति । शपथ: । न । कृत्या । न । अभिऽशोचनम् । न । एनम् । विऽस्कन्धम् । अश्नुते । य: । त्वा । बिभर्ति । आऽअञ्जन ॥९.५॥

    अथर्ववेद - काण्ड » 4; सूक्त » 9; मन्त्र » 5

    टिप्पणीः - ५−(न) नहि (एनम्) पुरुषम् (प्राप्नोति) गच्छति (शपथः) शीङ् शपिरुगमि०। उ० ३।१३। इति शप आक्रोशे-अथ। मिथ्यापवादः। उपद्रवः। क्रोधवचनम् (कृत्या) विभाषा कृवृषोः। पा० ३।१।१२०। इति कृञ् हिंसायाम्-क्यप्, तुक् टाप् च। हिंसाक्रिया (अभिशोचनम्) शुच शोके-ल्युट्। इष्टवियोगानुचिन्तनम्। चित्तविकलता (विष्कन्धम्) अ० १।१६।३। विशेषेण शोषकः। विघ्नः (अश्नुते) व्याप्नोति (यः) आत्मा (त्वा) त्वाम् (बिभर्ति) आत्मनि धारयति (आञ्जन) म० ३। हे जगतो व्यक्तीकारक ब्रह्म ॥

    इस भाष्य को एडिट करें
    Top